वाचस्पत्यम्
प्रीतिद || त्रि० प्रीतिं ददाति दा—क । प्रीतिदायके (भाँड) प्रहासिनि पु० हेमच० ।
शब्दकल्पद्रुमः
प्रीतिदः || पुं, (प्रीतिं ददातीति । दा + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
भण्डः । भाँड इति भाषा । तत्पर्य्यायः । वासन्तिकः २ केलिकिलः ३ वैहासिकः ४ विदूषकः ५ प्रहासी ६ । इति हेमचन्द्रः ॥ हर्षसुखप्रेम- दातरि, त्रि ॥