संस्कृत-शब्दकोशः

प्रेतवाहित प्रेतशुद्धि

प्रेतशिला

वाचस्पत्यम्

प्रेतशिला ||‍ स्त्री गयातीर्थस्थे प्रेतोद्धारणार्थे गुञ्जपृष्ठपर्वतादिस्थे शिलाभेदेवायुपु० गयाप्र० । गरुडपु० ८५ अ० तन्माहात्म्यादि यथा “येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता । प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि । धर्मेण धा- रिता भूत्यै सर्वदेवमयी शिला । प्रेतत्वं ये गता नृणां पित्राद्या बान्धवादयः । तेषामुद्धरणार्थाय यतः प्रेतः शिला ततः । अतोऽत्र मुन्यो भूपा राजपात्रादयः सदा । तन्यां शिकायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः । गयासुरस्य यन्मुण्डं तस्य वृष्ठे शिला यतः । मुण्डपृष्ठो गिरिस्तस्मात् सर्वदेवमयो ह्ययम् । मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः । अरविन्दवनन्तेषु तेन चैवो- पलक्षितः । अरविन्दगिरिर्नाम क्रौञ्चपादाङ्कितो यतः । तस्माद्गिरिः क्रौञ्चपादः पितॄणां ब्रह्मलोकदः । गदाधरादयो देवा आद्या आदौ व्यवस्थिताः । शिला- रूपेण च व्यक्तास्तस्माद्देवमयी शिला । गयाशिरश्छा- दयित्वा गुरुत्वादास्थिता शिला । स्नात्वा प्रेतशिलादौ तु चरणाम्बुसृतेन च । पिण्डं दद्यादिमैर्मन्त्रैरा- वाह्य च पितॄन् परान्” ।


शब्दकल्पद्रुमः

प्रेतशिला || स्त्री (प्रेतानां प्रेतेभ्यो वा या शिला ।)
पिण्डदानार्थगयास्थितप्रस्तरविशेषः । यथा, — ब्रह्मोवाच । “येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता । प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि ॥ धर्म्मेण धारिता भूत्यै सर्व्वदेवमयी शिला ॥ प्रेतत्वं ये गता नॄणां पित्राद्या बान्धवादयः । तेषामुद्धरणार्थाय यतः प्रेतशिला ततः ॥ अतोऽत्र मुनयो भूपा राजपत्न्यादयः सदा । तस्यां शिलायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः ॥ गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः । मुण्डपृष्ठो गिरिस्तस्मात् सर्व्वदेवमयो ह्ययम् ॥ मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः । अरविन्दवनन्तेषु तेन चैवोपलक्षितः ॥ अरविन्दो गिरिर्नाम क्रौञ्चपादाङ्कितो यतः । तस्माद्गिरिः क्रौञ्चपदः पितॄणां ब्रह्मलोकदः ॥ गदाधरादयो देवा आद्या आदौ व्यवस्थिताः । शिलारूपेण च व्यक्तास्तस्माद्देवमयी शिला । गयाशिरश्छादयित्वा गुरुत्वादास्थिता शिला ॥ * ॥
स्नात्वा प्रेतशिलादौ तु चरणाम्बुसृतेन च । पिण्डं दद्यादिमैर्म्मन्त्रैरावाह्य च पितॄन् परान् ॥ अस्मत्कुले मृता ये च गतिर्येषां न विद्यते । तेषामावाहयिष्यामि दर्भपृष्ठे तिलोदकैः ॥ पितृवंशे मृता ये च मातृवंशे च ये मृताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ मातामहकुले ये च गतिर्येषां न जायते । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ अजातदन्ता ये केचित् ये च गर्भेषु पीडिताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्ज्जिताः । स्वगोत्रे परगोत्रे या गतिर्येषां न विद्यते । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ उद्बन्धनमृता ये च विषशस्त्रहताश्च ये । आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥ अग्निदाहे मृता ये च सिंहव्याघ्रहताश्च ये । दंष्ट्रिभिः शृङ्गिभिर्व्वापि तेषां पिण्डं ददाम्यहम् ॥ अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे । विद्युच्चौरहता ये च तेषां पिण्डं ददाम्यहम् ॥ रौरवे चान्धतामिस्रे कालसूत्रे च ये गताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ असिपत्रवने घोरे कुम्भीपाके च ये गताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ अन्येषां यातनास्थानां प्रेतलोकनिवासिनाम् । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ पशुयोनिगता ये च पक्षिकीटसरीसृपाः । अथवा वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम् ॥ असंख्ययातनासंस्था ये नीता यमशासने । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ जात्यन्तरसहस्राणि भ्रमन्तः स्वेन कर्म्मणा । मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥ ये बान्धबाबान्धवा वा येऽन्यजन्मनि बान्धवाः । ते सर्व्वे तृप्तिमायान्तु पिण्डदानेन सर्व्वदा ॥ ये केचित् प्रेतरूपेण वर्त्तन्ते पितरो मम । ते सर्व्वे तृप्तिमायान्तु पिण्डदानेन सर्व्वदा ॥ ये मे पितृकुले जाताः कुले मातुस्तथैव च । गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥ ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः । क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ॥ विरूपास्त्वामगर्भा ये ज्ञाताज्ञाताः कुले मम । तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम् ॥ साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा । मया गयां समासाद्य पितणां निष्कृतिः कृता ॥ आगतोऽहं गयां देव ! पितृकार्य्ये गदाधर ! । तन्मे साक्षी भवस्वाद्य अनृणोऽहमृणत्रयात् ॥” इति गारुडे गयामाहात्म्ये । ८५-८६ । अध्यायौ ॥



Correction: