संस्कृत-शब्दकोशः

प्रेष प्रेषित

प्रेषण

वाचस्पत्यम्

प्रेषण ||‍ न० प्र + इष—ल्युट् । प्रेरणे नियोगे । णिच्—युच् । प्रेषणाऽप्यत्र स्त्री । प्रेषणेन जीवति वेतना० ठक् । प्रैषणिक तदुपजीविनि त्रि० । प्रेषणं नित्यमर्हति छेदा० ठक् । प्रैषणिक नित्यप्रेषणार्हे त्रि० ।


शब्दकल्पद्रुमः

प्रेषणं || क्ली (प्रेष् + भावे ल्युट् ।)
प्रेरणम् । यथा, “जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये ॥” इति चाणक्यसंग्रहः ॥



Correction: