वाचस्पत्यम्
प्रेष्ठ || त्रि० अतिशयेन प्रियः प्रिय + इष्टन् प्रादेशः एकाच्कत्वात् न टिलोपः । १ प्रियतमे अमरः । स्त्रियां टाप् । सा च २ प्रियतमायां ३ जङ्घायाञ्च शब्दच० ।
शब्दकल्पद्रुमः
प्रेष्ठः || त्रि (अयमेषामतिशयेन प्रिय इति । प्रिय + इष्ठन् । प्रादेशः ।)
अतिशयप्रियः । इत्य- मरः । ३ । १ । १११ ॥