संस्कृत-शब्दकोशः

प्रोण्ठ प्रोतोत्सादन

प्रोत

वाचस्पत्यम्

प्रोत ||‍ त्रि० प्र + वे—स्यूतौ क्त सम्प्रसारणम् । १ प्रकर्षेण स्यूते २ ग्रथिते वस्त्रे न० जटा० । भावे क्त । ३ सीवने न० ।


शब्दकल्पद्रुमः

प्रोतं || क्ली (प्र + वेञ् स्यूतौ + क्तः । यजादि- त्वात् सम्प्रसारणम् ।)
वस्त्रम् । इति जटाधरः ॥


शब्दकल्पद्रुमः

प्रोतं || त्रि (प्र + वेञ् + क्तः । यजादित्वात् सम्प्र- सारणम् ।)
खचितम् । इति मेदिनी । ते, ३७ ॥ स्यूतम् । (यथा, श्रीकण्ठचरिते । १५ । २५ । “नीरन्ध्रमात्तपरिरम्भविजृम्भणस्य रम्भोरुभिः सह विलासिजनस्य कामः । प्रोतं विधातुमिव चेतसि रागसूत्रं रोमाञ्चसूचिनिचयं प्रचुरीचकार ॥”)
गुम्फितम् । इति हेमचन्द्रः ॥



Correction: