वाचस्पत्यम्
प्रोषित || त्रि० प्र + वस—क्त इट् । प्रवासं गते विदेशं गते । “आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा” काशीख० पतिब्रतालक्षणम् ।
शब्दकल्पद्रुमः
प्रोषितः || त्रि (वस् + क्त । इट् । सम्प्रसारणम् । प्रकृष्टदूरं उषितः ।)
प्रवासगतः । यथा, —
“आर्त्तार्त्ते मुदिता हष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया परिव्रता ॥” इति शुद्धितत्त्वम् ॥ (दूरीभूतः । यथा, कलाविलासे । १ । १४ । “पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते । तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥”)