वाचस्पत्यम्
प्रो(प्रौ)ह || पु० प्र + वह—क वा वृद्धिः । प्रकृष्टवाहके
शब्दकल्पद्रुमः
प्रोहः || त्रि (प्रकर्षेण ऊहते वितर्कयतीति । प्र + ऊह + कः ।)
निपुणः । (प्र + ऊह + भावे घञ् ।)
तर्कः । इति मेदिनी । हे, ६ ॥
शब्दकल्पद्रुमः
प्रोहः || पुं, (प्रोह्यते वितर्क्यते विस्मयाकुलितैरिति । प्र + ऊह् + घञ् ।)
हस्तिचरणः । पर्व्व । इति विश्वमेदिन्यौ । हे, ५ । गजचरणपर्व्व । इति त्रिकाण्डशेषशब्दरत्नावल्यौ ॥