संस्कृत-शब्दकोशः

प्रौढ प्रौढमनोरमा

प्रौढपाद

वाचस्पत्यम्

प्रौढपाद is an alternate of प्रोढपाद. प्रो(प्रौ)ढपाद ||‍ त्रि० प्रौढः पादो यस्य । आसनारोपितपादा- दिके “आसनारूढपादस्तु जानुनीर्जङ्घयोस्तथा । कृताव सक्थिको यस्तु प्रौढपादः स उच्यते । स्नानमाचमनं होमं भोजनं देवतर्चनम् । प्रौढपादो न कुर्वीत स्वा- ध्यायं पितृतर्पणम्” इति छन्दोगप० । “अनेकवाह्ये दारुशिले भूमिसमे इष्टकाश्च संकीर्णीभूता” इति बौधा- यनवचनात्तथाविधे आरूढपादोऽपि न कुर्य्यात्” आ० त० ।


शब्दकल्पद्रुमः

प्रौढपादः || पुं, (प्रौढः पादो यस्य ।)
आसनारो- पितपादतलः । आसनोपरिपादतलद्बयसंयोग- पूर्ब्बकोपवेष्टा । वस्त्रादिना कृतपृष्ठजानुजङ्घा- बन्धः । वस्त्रादिद्वारा पृष्ठजानुजङ्घाद्बयदृढ- बन्धनपूर्ब्बकोपवेष्टा । यथा, —
“आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा । कृतावसक्थिको यस्तु प्रौढपादः स उच्यते ॥ स्नानमाचमनं होमं भोजनं देवतार्च्चनम् । प्रौढपादो न कुर्व्वीत स्वाध्यायं पितृतर्पणम् ॥” इति कात्यायनः ॥ * ॥
अनेकोद्बाह्ये दारुशिले भूमिसमे इष्टकाश्च संकीर्णीभूता इति बौधायनवचनात्तथाविधे आरूढपादोऽपि कुर्य्यात् । इत्याह्निकतत्त्वम् ॥



Correction: