वाचस्पत्यम्
प्लवक || त्रि० प्लु—बा० अक । १ प्लुतगतिकारके २ खग्धारादौ नर्त्तके त्रिका० ३ चण्डाले हला० ४ भेके ६ प्लक्षे राजनि०
शब्दकल्पद्रुमः
प्लवकः || पुं, (प्लवते इवेति । प्लु + अच् । ततः स्वार्थे संज्ञायां वा कन् ।)
खड्गधारादिनर्त्तकः । तत्पर्य्यायः । केलकः २ । इति त्रिकाण्डशेषः ॥ केकलः ३ नर्त्तुः ४ केलिकोषः ५ कलायनः ६ । इति शब्दरत्नावली ॥ चण्डालः । इति हला- युधः ॥ (सन्तरणोपजीवी । यथा, महाभारते । १३ । २३ । १५ । “गायना नर्त्तकाश्चैव प्लवका वादकास्तथा । कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ॥”)
भेकः । प्लक्षः । इति राजनिर्घण्टः ॥