संस्कृत-शब्दकोशः

प्लवगति प्लवङ्गम

प्लवङ्ग

वाचस्पत्यम्

प्लवङ्ग ||‍ पु० प्लवन् सन् गच्छति गम—ड खच् मुम् नि० । १ वानरे २ मृगे शब्दच० । ३ प्लक्षवृक्षे राजनि० ।


शब्दकल्पद्रुमः

प्लवङ्गः || पुं, (प्लवेन प्लुतगत्या गच्छतीति । गम + “गमश्च ।” ३ । २ । ४७ । इति खच् । “खच्च डिद्वा वाच्यः ।” इति डित् । डित्वात् टेर्लोपः । मुमागमः ।)
वानरः । इत्यमरः । २ । ५ । ३ ॥ (यथा, रामायणे । २ । २५ । १८ । “प्लवङ्गा वृश्चिका दंशा मशकाश्चैव कानने । सरीसृपाश्च कीटाश्च माभूवन् गहने तव ॥” “प्लवङ्गा वानराः ।” इति तट्टीकायां रामा- नुजः ॥)
मृगः । इति शब्दचन्द्रिका ॥ प्लक्षवृक्षः । इति राजनिर्घण्टः ॥



Correction: