संस्कृत-शब्दकोशः

प्लिह प्ली

प्लिहन्

वाचस्पत्यम्

प्लि(प्ली)हन् ||‍ पु० प्लि—कनिन् पृषो० वा दीर्घः । (पिला) १ वामकुक्षिपार्श्वस्थे मांसखण्डे तद्वृद्धिहेतुके २ रोगभेदे च तन्निदानादि भावप्र० उक्तं यथा “विदाह्यभिष्यन्दिरसस्य जन्तोः प्रदुष्टमत्यर्थमसृक्कफश्च । प्लोहाभिवृद्धिं कुरुतः प्रवृद्धौ त प्लीहसंज्ञं गदमामनन्ति । वामे स पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरो- ऽत्र । मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीण- बलोऽतिपाण्डु” । विदाहि कुलत्थमाषसर्षपशाकादि । अभिषन्दि माहिषं दध्यादि । कफपित्तलिङ्गैरुपद्रुत इ- त्यर्थः । प्रदुष्टमत्यर्थमसृक्कफश्चेति संप्राप्तिः असृजः पि- त्तस्य च समानधर्मत्वात् । रक्तजमाह “क्लमो भ्रमो बिदाहश्च वैवश्र्ण्यं गात्रगौरवम् । मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम्” । पैतिकस्य लक्षणमाह “सज्वरः सपिपासश्च सदाहो मोहसंयुतः । पीतगात्रो विशे- षेण प्लोहा पैत्तिक उच्यते” । श्लैष्मिकलक्षणमाह “प्लीहा मन्दव्यथास्थूल कठिनो गौरवान्वितः । अरो- चकेन संयुक्तः प्लीहा कफज उच्यते” । वातिकमाह “नित्यमानद्धकोष्ठः स्या(न्नित्योदावर्त्तपीडितः । वेद- नाभिः परीतश्च प्लीहा वातिक उच्यते” । तमसाध्यमाह “दोषत्रितयरूपोऽन्यः प्लीहाऽसाध्यो भवत्यपि” भावप्र० । तत्रैवान्यत्र तत्स्थानमुक्तं यथा “अथ शरीरावयवविशेषस्थ यकृत्प्लीहस्वरूपमाह “अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः । तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम्”


शब्दकल्पद्रुमः

प्लिहा || [न्] पुं, (प्लेहते वृद्धिं गच्छतीति । प्लिह + कनिन् ।)
प्लीहरोगः । यथा, यकृत्प्लिहा- न्त्राणि मुखादिव क्षिपन्निति वैद्यकम् । इत्यमर- टीकायां भरतः ॥ (यथा, याज्ञवल्क्ये । ३ । ९४ । “वपावसावहननं नाभिः क्लोम यकृत् प्लिहा ॥”)



Correction: