वाचस्पत्यम्
प्लीहारि || पु० ६ म० । अश्वत्थवृक्षे शब्दच० ।
शब्दकल्पद्रुमः
प्लीहारिः || पुं, (प्लीहाया अरिः शत्रुस्तन्नाशक- त्वात् ।)
अश्वत्थवृक्षः । इति शब्दचन्दिका ॥ (प्लीहनाशकवटिकौषधविशेषः । यथा, —
“द्विकर्षं लौहभस्मापि कर्षं ताम्रं प्रदापयेत् । शुद्धसूतं तथा गन्धं कर्षमानं भिषग्वरः ॥ मृगाजिनं पलं भस्म लिम्पाकाङ्घ्रित्वचः पलम् । एवं भागक्रमेणैव कुर्य्यात् प्लीहारिसंज्ञकम् ॥ नवगुञ्जामितं खादेदथ नित्यं हि पूतवान् । प्लीहानं यकृतं गुल्मं हन्त्यवश्यं न संशयः ॥” इति प्लीहारिरसः ॥ * ॥
इति वैद्यकरसेन्द्रसंग्रहे प्लीहाधिकारे ॥)