वाचस्पत्यम्
प्लुस || दाहे विभागे च दिवा० पर० सक० सेट् । प्लुस्यति इरित् अप्लुसत् अप्लोसीत् पुप्लोस ।
शब्दकल्पद्रुमः
प्लुस || इर् य दाहे । विभागे । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-सक०-सेट् ।)
अन्तःस्थतृतीय- युक्तः । इर्, अप्लुसत् आप्लोसीत् । य, प्लुस्यति । इति दुर्गादासः ॥