फलशाडव
फलशैशिर
फलशालिन्
वाचस्पत्यम्
फलशालिन् || त्रि० फलेन शालते श्लाघते शाल—णिनि । फल- युक्ते स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
फलशाली || [न्], त्रि, (फलेन शालते श्लाघते इति । शाल् + णिनिः ।)
फलाश्रयः । यथा, —
“परसमवेतधात्वर्थजन्यफलशालित्वं कर्म्मत्वम् ॥” इति कर्म्मलक्षणे सारमञ्जरी ॥