वाचस्पत्यम्
फलहारी || त्री० फलं हारो हरणं यस्यै गौरा० ङीष् । कालीभेदे तत्पूजादिनञ्च “ज्येष्ठे मासि अमायां वै मध्यरात्रे महेश्वरि! । पूजयेत् कालिकां देवीं नाना- द्रव्योपहारकैः । तत्रैवासितपक्षे तु पञ्चदश्यां निशा- र्द्धके । पूजयेच्च फलैर्लक्षैः शक्तितो वापि कालिकाम्” मायातन्त्र १७ पटले ।
शब्दकल्पद्रुमः
फलहारी || स्त्री काली । फलं हरति या ढात् षण्णिति कर्म्मोपपदहृञ् घातोः षणि ईप्प्रत्यय- निष्पन्नोऽयं शब्दः । सा ज्यैष्ठपञ्चदश्यां बहु- फलाद्युपहारैः पूजनीया । यथा, —
“ज्यैष्ठे मासि अमायां वै मध्यरात्रे महेश्वरि ! । पूजयेत् कालिकां देवीं नानाद्रव्योपहारकैः ॥ तत्रैव सितपक्षे तु पञ्चदश्यां निशार्द्धके । पूजयेच्च फलैर्लक्षैः शक्तितो वापि कालिकाम् ॥” इति मायातन्त्रे १७ पटलः ॥