वाचस्पत्यम्
फलाध्यक्ष || पु० फलमध्यक्षमिव यस्य । १ राजादने अमरः । २ फलदाना—ध्यक्षे ईश्वरे च । फलसाक्षीत्यादयोऽपीश्वरे ।
शब्दकल्पद्रुमः
फलाध्यक्षं || क्ली (फलानामध्यक्षमिव ।)
राजा- दनवृक्षः । इत्यमरः । २ । ४ । ४५ ॥ (क्वचित्, पुं । अस्य पर्य्यायः । “राजादनः फलाध्यक्षोराजन्यः क्षीरिकापिच ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
फलानामधिकृते, त्रि ॥