वाचस्पत्यम्
फलाम्ल || न० फलमम्लं यस्य । १ वृक्षाम्ले २ अम्लवेतसे पु० राजनि० ।
शब्दकल्पद्रुमः
फलाम्लं || क्ली (फलमम्लं यस्य ।)
वृक्षाम्लम् । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने ४६अ ॥ “मद्यं मद्योचितानान्तु सर्व्वमांसेषु पूजितम् । अमद्यपानामुदकं फलाम्लं वा प्रशस्यते ॥”)
शब्दकल्पद्रुमः
फलाम्लः || पुं, (फलमम्लमस्य ।)
अम्लवेतसः ॥ इति राजनिर्घण्टः ॥