वाचस्पत्यम्
फलिका || स्त्री फल + अस्त्यर्थे ठन् टाप् । निष्पाव्याम् राजनि०
शब्दकल्पद्रुमः
फलिका || स्त्री (फलमस्या अस्तीति । फल + ठन् । टाप् ।)
निष्पावी । इति राजनिर्घण्टः ॥ (फला स्वार्थे कनि अत इत्वम् । शरादेरग्रभागः । यथा, आर्य्यासप्तशत्याम् । ३३५ । “न प्राप्यसे कराभ्यां हृदयान्नापैषि वितनुषे बाधाम् । त्वं मम भग्नावस्थितकुसुमायुधविशिख- फलिकेव ॥”)