वाचस्पत्यम्
फलेग्रहि || पु० फले फलं (कर्मण आधारत्वविवक्षा) गृह्णाति धारयति स्वीकरोति वा इनि अलुक् स० । १ योग्यकाले फल- चारके वृक्षे यथाकालं फलस्वीकारिणि च । “फले- ग्रहीन् हंसि वनस्पतीनाम्” भट्टिः । लुकि तु फलग्राहि तच्छब्दे दृश्यम् । पृषो० फलेग्राहिरप्यत्र शब्दरत्ना० ।
शब्दकल्पद्रुमः
फलेग्रहिः || पुं, (फलं गृह्णातीति । फल + ग्रह + “फलेगृहिरात्मम्भरिश्च ।” ३ । २ । २६ । इति उप- पदस्य एदन्तत्वं ग्रहेरिन् प्रत्ययश्च निपात्यते ।)
यथासमयं फलधरवृक्षः । ऋतुप्राप्तौ फलानि गृह्णाति घारयतीति फलेग्रहिः शकृत्स्तम्बादि- त्यादिना इः सूत्रे फले इति निर्द्देशात् एकारः । किंवा फले गृह्णाति इति फलेग्रहिः कर्म्मण्या- धारविवक्षा निपातनात् सप्तम्या अलुक् लुकि फलग्रहिश्च फलेग्रहिः फलग्रहिरिति वाच- स्पतिः । इह ग्रहिर्धारणार्थः स्वीकारार्थश्च अत्र धारणार्थे वृक्ष एव रूढिः । स्वीकारार्थे तु क्रियाशब्दतैव यथा फलेग्रहीन् हंसि वन- स्पतीनामिति भट्टिः ॥ इति रायमुकुटादयः । इत्यमरटीकायां भरतः ॥ फलग्रहणकर्त्तरि, त्रि ॥