वाचस्पत्यम्
फलेरुहा || स्त्री फले तन्निमित्तं रोहति रुह—क । पाटलिवृक्षे अमरः ।
शब्दकल्पद्रुमः
फलेरुहा || स्त्री (फले रोहतीति । रुह + कः । सप्तस्या अलुक् ।)
पाटलिवृक्षः । इत्यमरः । २ । ३ । ५४ ॥ (अस्याः पर्य्यायो यथा, —
“पाटलालिप्रिया स्थाली ताम्रपुष्पी फलेरुहा । कामदूती कुवेराक्षी कुम्भी तोयाधिवासिनी ॥” इति वैद्यकरत्नमालायाम् ॥)