संस्कृत-शब्दकोशः

फल्गुदा फल्गुनाल

फल्गुन

वाचस्पत्यम्

फल्गुन ||‍ पु० फलगुचूर्णभेदो नीयतेऽस्मिन् नी—ड । १ फाल्गुने मासि २ अर्जुने च भरतः ।


शब्दकल्पद्रुमः

फल्गुनः || पुं, (फलति कार्य्यादिकमस्मादिति । फल निस्पत्तौ + “फलेर्गुक् च ।” उणा० ३ । ५६ । इति उनन् गुगागमश्च । फल्गुन्यां फल्गुनीनक्षत्रे जातः इति वा । “श्रविष्ठा फल्गुन्यनुराधेति ।” ४ । ३ । ३४ । इति जातार्थ- प्रत्ययस्य लुक् । “लुक् तद्धितलुकि ।” १ । २ । ४९ । इति स्त्रीप्रत्ययस्य च लुक् । एतन्निरुक्तिस्तु फाल्गुनशब्दे द्रष्टव्या ।)
अर्ज्जुनः । फाल्गुन- मासः । इत्यमरटीकायां भरतः ॥ (फल्गुनी- भवे, त्रि । इति सिद्धान्तकौमुदी ॥)



Correction: