वाचस्पत्यम्
फल्गुनी || स्त्री फल—उनन् गुक् च गौरा० ङीष् । १ काकोडुम्बु- रिकायाम् राजनि० । अश्विन्यवधिके एकादशे द्वादशे च २ नक्षत्रे च ब० व० भरतः ।
शब्दकल्पद्रुमः
फल्गुनी || स्त्री (फल्गुन + गौरादित्वात् ङीष् ।)
नक्षत्रविशेषः । तच्च पूर्ब्बफल्गुनी उत्तर- फल्गुनी च । इति भरतधृतगोवर्द्धनानन्दः ॥ (यथा, महाभारते । ४ । ४२ । १६ । “उत्तराभ्याञ्च पूर्ब्बाभ्यां फल्गुनीभ्यामहं दिवा । जातो हिमवतः पृष्टे तेन मां फाल्गुनं विदुः ॥)
काकोदुम्बरिका । इति राजनिर्घण्टः ॥ (फल्- गुन्यां जाता । श्रविष्ठाफल्गुनीति अणो लुकि लुक्तद्धितलुकीति स्त्रीप्रत्ययस्य च लुकि फल्- गुन्यषाढाभ्यां टानौ वक्तव्यौ इति वार्त्तिकोक्त्या टः । टित्वात् ङीप् ॥)