वाचस्पत्यम्
फुत्कार || पु० कृ—भावे घञ् फुदित्यव्यशब्दस्य कारः । फुदिव्य- व्यक्तशब्दकरणे । फुत्कारयुक्ते वह्नौ आहुतिनिषेधो यथा “अल्पे कक्षे सस्फुलिङ्गे वामावर्त्ते भयामके । षार्द्रकाष्ठैः समुत्पन्ने फुत्कारवति पावके । कृष्णार्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतिं जुहुयाद्- यस्तु तस्य नाशो भवेद् ध्रुवम्” ति० त० ।
शब्दकल्पद्रुमः
फुत्कारः || पुं, (कृ + भावे घञ् । फुदित्यव्यक्तशब्दस्य कारः करणम् ।)
फुत्करणम् । फु इति फुँक् इति च भाषा । फुत्कारवति पावके आहुति- निषेधो यथा, तिथ्यादितत्त्वे । “अल्पे रूक्षे सस्फुलिङ्गे वामावर्त्ते भयानके । आर्द्रकाष्ठैः समुतपन्ने फुत्कारवति पावके ॥ कृष्णार्च्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतिं जुहुयाद्यस्तु तस्य नाशो भवेद्- ध्रुवम् ॥”