वाचस्पत्यम्
फुल्ल is an alternate of फुल्त. फुल्त(ल्ल) || त्रि० फल—आरम्भे भावे क्त वा तयोर्नेट् अत इत्त्वम् । १ फलनारम्बयुते २ फलने च । पक्षे फलित इति । अन्यत्र फलित इत्येव । भावे क्तिन् फुल्तिं फलने स्त्री ।
वाचस्पत्यम्
फुल्ल || त्रि० फुल्ल—विकाशे अच् । विकशिते पुष्पे अमरः ।
वाचस्पत्यम्
फुल्ल || विकाशे भ्वा० पर० अक० सेट् । फिल्लति अफुल्लीत् पुफुल्ल ।
शब्दकल्पद्रुमः
फुल्लः || त्रि (फुल्लतीति । फुल्ल + अच् । यद्बा, फलतीति । ञि फला विसरणे + क्तः । “आदि- तश्च ।” ७ । २ । १६ । इति इडभावः । “ति च ।” ७ । ४ । ८१ । इति उत्वम् । अनुपसर्गात् । फुल्लक्षीवेति ।” ८ । २ । ५५ । इति निष्ठा तस्य लः ।)
विकसितः । इत्यमरः । २ । ४ । ८ ॥ (यथा, महा- भारते । १ । १२८ । ४१ । “जलञ्च शुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा ॥”)
पुष्पम् । फुल इति भाषा । यथा, —
“श्रीपञ्चम्यां श्रियं देवीं फुल्लैः संपूजयेत् सदा ॥” इति कालिकापुराणम् ॥
शब्दकल्पद्रुमः
फुल्ल || विकासे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।)
ह्रस्वी । लद्वयान्तः । विकास इह कस ज गताविति दन्त्यान्तस्य घञि रूपम् । विपूर्ब्बत्येनार्थान्तरवाचितया विकसनमित्यर्थः । फुल्लति मल्लीकलिका । इति दुर्गादासः ॥