वाचस्पत्यम्
फेण(न) || पु० स्फाय—न पृषो० मतान्तरे णत्वम् । दुग्धजलादे- रुपर्य्युपरिस्थे बुद्बुदाकारे पदार्थे (फेना) अस्य णान्तत्व- मपि “हंसश्रेण्यो नदीतीरे निनदैः संप्रतीयिरे । यथा सारस्वता मन्त्रा अन्तरे फेणसङ्गता” इत्युक्तौ पक्षे अन्त- रेफेण अन्तःस्थरकारेण संयुता इत्यर्थः । २ हिमे च ३ गुडविकारभेदे स्त्री ङीप् । “वटो वेशवारात् लवङ्गेन फेणी शमं पर्पटः शिग्रुवीजेन याति” जीर्णमञ्जरी । “बा- नीरं गगनं फेनमूनञ्च दन्त्यनान्वितम् । आहुः फाल्गुन- मिच्छन्ति केचिन्मूर्ध्वमुणान्वितम्” भरतधृतवाक्यम् ।
शब्दकल्पद्रुमः
फेणः || पुं, (स्फायते वर्द्धते इति । स्फाय + “फेन- मीनौ ।” उणा० ३ । ३ । इति नक् फे-शब्दा- देशश्च । मतान्तरे णत्वम् । दन्त्यनान्तपाठस्तु गरीयान् ।)
फेनः । तरलद्रव्योपर्य्युत्थितबुद्बुदा- कारवस्तु । फेना इति भाषा । यथा, —
“पयःफेणनिभा शय्या दान्ता रुक्मपरिच्छदा ॥” इति पुराणम् ॥ हिण्डीरः । इत्यमरः । २ । ९ । १०५ ॥ समुद्र- फेना इति भाषा । अस्य मूर्द्धन्यणान्तस्य प्रमाणं यथा, —
“हंसश्रेण्यो नदीतीरे निनदैः संप्रतीयिरे । यथा सारस्वता मन्त्रा अन्तरे फेणसङ्गता ॥” इत्यमरटीकायां रघुनाथचक्रवर्त्ती ॥