वाचस्पत्यम्
फेलि || स्त्री फेल—इन् । उच्छिष्टे भुक्तावशिष्टे व्यदाध० स्वार्थे क फेलिका तत्रार्थे इति श्रीतारानाथतर्कवाचसातिभट्टाचार्य्य- सङ्कलिते वाचस्पत्ये फकारादिशब्द- सङ्कलनम् । ||फाण्टशब्दपरिशिष्टम्—“तद्वै नवनीतं भवति घृतं देवानां फाण्टं मनुष्याणाम्” शत०ब्रा० “नवनीतभावात् प्रागवस्थापन्नं द्रव्य फाण्टमित्युच्यते” भाष्यम् ।
शब्दकल्पद्रुमः
फेलिः || स्त्री (फेल + इन् ।)
उच्छिष्टम् । इति जटाधरः ॥