वाचस्पत्यम्
बणिज is an alternate of बणिज्. बणिज्(ज) || पु० पणायते व्यवहरति पण—इजि इजो बा यस्य वः । आजीवनार्थं क्रयविक्रयव्यवहारकर्त्तरि अमरः । २ ज्योतिषोक्ते ववादितः षष्ठे करणे च ४ बाणिज्ये स्त्री मेदि० । स्वार्थे अण् वाणिज तत्रार्थे अमरः ।
शब्दकल्पद्रुमः
ब(व)णिजः || पुं, (वणिगेव । बणिज् + स्वार्थे अण् । अभिधानात् न वृद्धिः ।)
बणिक् । इत्यमरः । २ । ९ । ७८ ॥ ववाद्येकादशकरणान्तर्गतषष्ठ- करणम् । तज्जातफलं यथा, कोष्ठीप्रदीपे । “प्राज्ञः कृतज्ञो गुणवान् गुणज्ञो बणिग्जनप्राप्तमनोरथः स्यात् । यस्य प्रसूतौ बणिजाभिधानं भाण्डप्रधानं द्रविणं हि तस्य ॥”