संस्कृत-शब्दकोशः

बधार्ह बधू

बधिर

वाचस्पत्यम्

बधिर ||‍ त्रि० बन्ध—किरच् । श्रोत्रेन्द्रियरहिते श्रवणशक्तिशून्थे । तस्यानंशिता मनुनोक्ता यथा “अनंशौ क्लीवपतितौ जात्यन्धबधिरौ तथा” । ततः अरीहणा० चतुरर्थ्यां वुञ् । बाधिरक तन्निकटदेशादौ त्रि० । ततः दृढा० भावे वा इमनिच् पक्षे ष्यञ् । बधिरिमन् पु० बाधिर्य्य न० तद्भावे तन्निदानादि माधवकरेणोक्तं यथा “यदा शब्दबहं वायुः स्योतसावृत्य तिष्ठति । शुद्धः श्लेष्मा- न्वितो बापि बाधिर्य्यं तेन जायते” ।


शब्दकल्पद्रुमः

बधिरः || त्रि (बध्नाति कर्णमिति । बन्ध + “इषिमदि- मुदीति ।” उणा० १ । ५२ । इति किरच् ।)
श्रवणेन्द्रियरहितः । श्रुतिशक्तिहीनः । काला इति भाषा । तत्पर्य्यायः । एडः २ । इत्य- मरः । २ । ६ । ४८ ॥ कल्लः ३ श्रवणापटुः ४ । इति शब्दरत्नावली ॥ उच्चैःश्रवाः ५ । इति संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, मनुः । ११ । ५२ । “एवं कर्म्मविशेषेण जायन्ते सद्बिगर्हिताः । जडमूकान्धबधिराविकृताकृतयस्तथा ॥” बाधिर्य्यनिदानं यथा, —
“यदा शब्दवहं वायुः श्रोत आवृत्य तिष्ठति । शुद्धः श्लेष्मान्वितो वापि बाधिर्य्यं तेन जायते ॥” इति माधवकरः ॥ असाध्यबाधिर्य्यमाह । “बाधिर्य्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्ज्जयेत् ।” इति भावप्रकाशः ॥ * ॥
अस्यौषधम् । “कर्णशूले कर्णनादे बाधिर्य्ये क्षेड एव च । चतुर्ष्वपि च रोगेषु सामात्यं भेषजं स्मृतम् ॥ शृङ्गवेरञ्च मधु च सैन्धवं तैलमेव च । कटूष्णं कर्णयोर्धार्य्यमेतत् स्याद्बेदनापहम् ॥ १ ॥ कर्णशूले कर्णनादे बाधिर्य्ये क्षेड एव च । पूरणं कटुतैलेन हितं वातघ्नमौषधम् ॥ २ ॥ शिखरिक्षारजवारितत्कृतकल्केन साधितं तैलम् । अपहरति कर्णनादं वाधिर्य्यञ्चापि पूरणतः ॥ शिखरी अपामार्गः ॥ ३ ॥ गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् । सजलञ्च सदुग्धञ्च तद्बाधिर्य्यहरं परम् ॥ क्षीरमत्राजं ग्राह्यम् । बिल्वतैलम् ॥ ४ ॥” इति भावप्रकाशः ॥ यथा च । “शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । शुष्कं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत् ॥ बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः । क्रिमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥” ५ इति गारुडे १९७ अध्यायः ॥



Correction: