वाचस्पत्यम्
बन्धुजीवक is an alternate of बन्धुजीव. बन्धुजीव(क) || पु० बन्धुरिव जीवयति हीवि—अण् ण्वुल् वा । बन्धुजीववृक्षे । (बांधुआलि) वृक्षे अमरः ।
शब्दकल्पद्रुमः
बन्धुजीवकः || पुं, (बन्धुवत् जीवयति रसादिना इति । बन्धु + जीव + ण्वुल् । यद्बा, बन्धुजीव एव । स्वार्थे कन् ।)
बन्धूकवृक्षः । इत्य- मरः । २ । ४ । ७३ ॥