वाचस्पत्यम्
बलद || पु० बलं ददाति दा—क । “पौष्टिके बलदः स्मृतः” १ पौष्टिककर्माङ्गे वह्निमेदे । २ अश्वगन्धायां स्त्री । राजनि० ३ वलदातरि त्रि० । ४ जीवके पु० राजनि० ।
शब्दकल्पद्रुमः
बलदः || पुं, (बलं ददातीति । बल + दा + कः ।)
जीवकः । इति राजनिर्घण्टः । पौष्टिककर्म्माङ्ग- होमाग्निः । यथा । पौष्टिके बलदः स्मृतः । इति तिथ्यादितत्त्वम् ॥ (वृषभः । यथा, कथा- सरितसागरे । ३७ । १५३ । “अन्येद्युः प्रणयक्रीडाव्याजाच्च मम सूत्रकम् । गलेऽबध्नादहं दान्तस्तत्क्षणं बलदोऽभवम् ॥”)
बलदातरि, त्रि ॥ (यथा, ऋग्वेदे । ३ । ५३ । १८ । “बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥”)