वाचस्पत्यम्
बलामोटा || स्त्री० बलमामोटयति आ + मुट—अच् । नागदम- न्याम् भवाप्र०
शब्दकल्पद्रुमः
बलामोटा || स्त्री (बलमामोटयतीति । बल + आ + मुट् + अच् । टाप् ।)
नागदमनी । इति भावप्रकाशः ॥ (यथास्या गुणाः । “बलामोटा कटुस्तिक्ता लघुः पित्तकफापहा । मूत्रकृच्छ्रव्रणान् रक्षो नाशयेज्जालगर्द्दभान् ॥ सर्व्वग्रहप्रशमनी निःशेषविषनाशिनी । जयं सर्व्वत्र कुरुते धनदा सुमतिप्रदा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।)