संस्कृत-शब्दकोशः

बलाह्वकन्द बलिका

बलि

वाचस्पत्यम्

बलि ||‍ पु० बल—इन् । १ पूजायाम् २ उपहारे, “ददतु—स्तौ बलिं चैव निजगात्रासृगुक्षितमिति” चण्डी ३ राजग्राह्ये अमरः ४ चामरदण्डे, गृहस्थकर्त्तव्यपञ्चयज्ञमध्ये भागे, ५ भूतयज्ञे, हेमच० । “बलिकर्म ततः कुर्य्यादिति” स्मृतिः । विरोचनपुत्रे ६ दैत्यभेदे च “येन बद्धो बलीराजा दानवेन्द्रो महावसः” रक्षाबन्धनमन्त्रः । ७ जरया श्लथचर्मणि स्त्री० ङीप् । “गृहस्यस्तु यदा षश्येत् बलीपलितमात्मनः” इति मनुः । ७ उदरावयवभेदे “बलि- त्रयं चारु बभार बाला” इति कुमारः । ८ गुह्यस्थे अङ्कु- राकारे मांसपिण्डे, वैद्यकम् अर्शस्शब्दे दृश्यम् । ९ गृ- हदारुभेदे च (पाड) स्त्री० स्वार्थे क । बलिका तत्रार्थे अतिबलायाञ्च राजनि० । १० ययातिवंश्यसुतपोनृपपुत्रे विष्णु पु० । दानबभेदकथा भाग० ४ स्क० दृश्या । वैश्वदेवबलिकरणप्रकारः मार्क० पु० उक्तो यथा । “ततोऽग्नेस्तर्पणं कुर्य्याद्दद्याच्च बलिमित्यथ । ब्रह्मणे गृहमध्ये तु विश्वदेवेभ्य एव च । धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां बलिं क्षिपेत् । प्राच्यां शक्राय, याम्यायां यमाय बलिमाहरेत् । प्रतीच्यां वरुणायैव सोमायो- त्तरतो बलिम् । दद्याद्धात्रे विधात्रे च बलिं द्वारे गृहस्य च । अर्य्यम्णे च बलिं दद्यात् गृहेभ्यश्च सम- न्ततः । नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् । पितृणां निर्व्यपेच्चैव दक्षिणाभिमुखस्थितः । मृहस्य- स्तत्परो भूत्वा सुसमाहितमानसः । ततस्तोयसुपादाय तिष्ठेदाचमनाय वै । स्थामेषु निक्षिपेत् प्राज्ञस्तास्ता उद्दिश्य देवताः । एवं गृहबलिं कृत्वा गृहे मृहपतिः शुचिः । आप्यायनाय भूतानां कुर्य्यादुत्सर्गमादरात् । श्वभ्यञ्च श्वपञ्चभ्यश्च वयोभ्यश्च वपेद्भुवि । वैश्वदेवं हि नामैतत् सायं प्रातरुदाहृतम्” । देवोद्देश्यकबलिविशेषादिकं यथा ||‍“सायापनिदानेषु ग्राह्याः सर्वसुरस्य तु । प- लिचः कच्छपा ग्राहा नत्स्या नवविधा मृगाः । महिषो गोधिका गावश्छागो बभ्रुश्च शूकरः । खङ्गश्च कष्णसारश्च गोधिका सरभो हरिः । शार्दूलश्च नर- त्वैव रवगात्ररुधिरन्तधा । चण्डिकाभैरवादीनां बलयः परिकीर्त्तिताः । वलिभिः साध्यते मुक्ति- र्बलिभिः साध्यते लणम् । बलिदानेन सततं जयेत् शत्रू- नृपान्नृपः । मत्स्यानां कच्छपानाञ्च रुधिरैः सततं शिवा । मसैकं तृप्तिवायाति ग्राहैर्मासांस्तु त्रीनथ । मृगाणां शोणितैर्देवी नराणामपि शोणितैः । अष्टौ मासानवाप्नोति तृप्तिं कल्याणदा च सा । गोगोधि- कानां रुधिरैर्व्वार्षिकीं तृप्तिमाप्नुयात्। कृष्णसारस्य रुधिरैः शूकरस्य च शोणितैः। आप्नोति सततं देवी तृप्तिं द्वादशवार्षिकीं । महिषाणाञ्च खड्गानां रुधिरैः शतवार्षिकीम् । तृप्तिमाप्नोति परमां शादू लरुधिरैस्तथा । सिंहस्य सरभस्याथ स्वगात्रस्य च शोणितैः । देवी तृप्ति- मवाप्नोति सहस्रं परिषत्मरान् । मांसैरपि तथा प्रीती- रुधिरैर्यस्य यावती । कृष्णसारमृते खड्गं तथा मत्स्यञ्च रोहितम् । वार्द्धीनसयुगञ्चापि फलं तेषां पृथक् शृणु । कृष्णसारस्य मांसेन तथा खड्गेन चण्डिका । वर्षान् पञ्च शतान्येव तृप्तिमाप्नोति केवलाम् । रोहितस्य तु मत्स्यस्य मांसैवांर्द्धीनसस्य च । तृप्तिमाप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया । त्रिःपिवंस्त्रीन्द्रिय- क्षीणः श्वेतो वृद्धस्त्वजापतिः । वार्द्धीनसः प्रोच्यतेऽसौ हव्ये कव्ये च सत्कृतः । नीलग्रोवो रक्तशीर्षः कृष्ण- पादः सितच्छदः । वार्द्धीनसः स्यात् पक्षीशो मम विष्णो रतिप्रियः । “मन्त्रपूतं शोणितन्तु पीयूषं जायते सदा । मस्तकञ्चापि तस्यात्ति मांसञ्चाषि सदा शिवा । तस्मात्तु पूजने दद्याद्बलेः शीर्षञ्च लोहितम् । भोज्ये होमे च मांसानि नियुञ्जीयाद्विचक्षणः । पूजाषु नाऽऽन मांसानि दद्याद्वै साधकः क्वचित् । ऋते तु लोहित शीर्षममृतं तत्तु जायते । कुष्माण्डमिक्षुदण्डञ्च मद्य- मासंवमेव च । एते बलिसमाः प्रोक्तास्तृप्तौ छागु- समाः सदा । चन्द्रहासेन कत्र्यां वा छेदनं मुख्यमि- ष्यते । दात्रासिधेनुक्रकचसङ्कुलाभिस्तु मध्यमम् । क्षुरक्षुरप्रभल्लेश्चैवाधमं परिकीर्त्तितम् । एम्योऽन्यैः शक्तिपाण्याद्यैर्बलिश्छेद्यः कदापि न । नात्ति देवी बलिं तन्तु दाता मृत्युमवाप्नुयात् । हस्तेन च्छेदयेद्यस्तु प्रोक्षितं साधकः पशुम् । पक्षिणं वा ब्रह्महत्यां सोऽवा- प्नोति मुदुःसहाम् । नामन्त्र्य खड्गन्तु वलिं नियुञ्जीत विचक्षणः ।” “पशूनां पक्षिणाञ्चापि नराणाञ्च विशे- षतः । स्रियं न दद्यात्तु बलिं दत्त्वा नरकमाप्नुयात् । मङ्घातबलिदानेषु योषितं पशुपक्षिणोः । षलिं दद्या- न्मानुषीन्तु त्यक्त्वा सङ्घातपूजितम् । न त्रिभासीबकान्न्यूनं पशुं दद्यात् शिवावलिम् । न च त्रिपक्षकान्न्यूनं प्रद- द्याद्वै पतत्रिणम् । काणाभ्यङ्गादिदुष्टन्तु न पशु पक्षिण- न्तथा । देञ्चै दद्याद्यथामर्त्यं तथैव पशुपक्षिणौ । किन्नलाङ्गूत्वकर्णादिभग्नदन्तन्तथैन स । भग्नशृङ्गादि- कङ्कापि न दद्यात्तु कदाचन ।” नारं सव्ये शिरो- रक्तं देव्याः सम्यक् निवेदयेत् । कानन्तु बायतो दद्यान्म- हिषं वितरेत् पुरः । पशिणं वामतो दद्यादग्रतो देह शोणितम् । क्रव्यादीनां पशूनान्तु पक्षिणाञ्च शिरोऽ सृजम् । यामे निवेदयेन पार्श्व जलजानाञ्च सर्व्वशः । कृष्णसारस्य कूमक खडगस्य शशकस्य च । ग्राहाणा- यध मत्स्यानामग्र एव निवैदयेत् । सिंहस्य दक्षिणे दद्यात् खड्गिनोऽपि च दक्षिणे । पृष्ठदेशे न दद्य नु शिरो वा रुधिर वलेः” कालिपु० नानास्थानीयम् । “बसिदानेन विप्रेन्द्र! दुर्गाप्रीतिर्भवेनृणाम् । हिंसाजन्यञ्च पापञ्च सभते मात्र संशयः । उत्सर्गकर्त्ता दाता च छेत्ता सोष्टा च रक्षकः । अग्रपश्चान्निरोद्धा च सप्तैते बधना- गिनः । यो यं हन्ति स तं हन्ति चेति वेदाक्तमेध च । कुर्य्यन्ति वैष्णवीं पूजां वैष्णवास्तेन हेतुना” ब्रह्म० प्रकृ० ६१ । ६२ अ० । बलिदाननिन्दा यथा “पार्वत्युवाक्ष । ये ममार्चनमित्युक्त्वा प्राणिहिंसन तक्सराः । तत् पूजनं ममामेध्यं यद्दोषात्तदधोगतिः । मदर्थे शिव कुर्वन्ति तामसा जीवषातनम् । आकल्प कोटि निरये तेषां वासो न संशयः । मम नाम्नाथ वा कज्ञे पशुहत्यां करोति यः । क्वापि तन्निष्कृतिर्नास्ति कुम्भीपाकमवाप्नुयात् । दैवे पैत्रे तथात्मार्थे यः कुर्य्यात् प्राणिहिंसनम् । कल्पकोटिशतं शम्भो! रौरवे स बमेत् ध्रुवम् । यो मोहान् मानसैर्दैहिहत्यां कुर्य्यात् सदाशिव! । एकविंशतिकृत्वः स तत्तद्योनिषु जायते । यस्तु यज्ञे पशून् हत्वा कुर्य्यात् शीणितकर्दमम् । स पचेन्नरके तावद् बावल्लोमानि तस्य वै । हन्ता कर्त्ता तथोतमतकर्त्ता धर्त्ता तथैव च । तुल्याभवन्ति सर्वे ते ध्रुव नरकगामिनः । ममोद्देशे पशून् हत्वा सरक्तं पात्रमुनसृजेब । यो मूढः स तु पूयोदे वमेद् देव! न मंशयः । देवतान्तरभन्नामव्याजेन स्वेच्छया तथा । हत्व । जीवास्तती मोहात् नित्यं नरकमाप्नुयात् । यूपे बद्ध्वा पशून् हत्वा यः कुर्य्याद्रक्तकर्दमम् । तेन चेत् प्राप्यते, स्वर्गो नरकं केन गम्यते । उपदेष्टा वथे हन्ता कर्त्ता धर्त्ता च विक्रयी । उत्सर्गकर्त्ता जीवानां सर्वषा नरकं भवेत् । मध्यस्थस्य बधायापि प्राणिनां क्रय- विक्रये । तवा दृष्टुब सूनायां कुम्भीपाकीभवद् ध्रुवम् । स्ववकामाथयो भूत्वा योऽज्ञानेन विमोहितः । हन्त्यन्यात् विविधान् जीवान् कुर्य्यान्मन्नाम शङ्कर! । तद्राज्यवंशसम्पत्तिज्ञातिदारादिसम्पदाम् अचिराद्वै भवेन्नाशो मृतः स नरकं व्रजेत्। देवयज्ञे पितृश्राद्धे तथा माङ्गल्यकर्मणि। तस्यैव नरके वासो यः कुर्य्या- ज्जीवधातनम । मद्व्याजेन पशून् हत्वा यो भक्षेत् सह बन्धुभिः । गद्गात्रसोमसंख्याव्दैरसिपत्रवने वसेत् । आवयोरन्यदेवानां न । च परकर्मणि । यः संपोष्य पशून् हन्यात् बोऽन्धतामिस्रमाप्नुयात् । पशून् हत्वा तथा त्वां मां योऽर्चयेन्मांसशोणितैः । तावत्तन्नरके वासो यावच्चन्द्रदिवाकरौ । निर्वह्निभस्म- तुल्यं तत् बहुद्रव्येण यत् कृतम् । यस्मिन् यज्ञे प्रभो । शम्भो! जीवहत्या भवेद्ध्रुवम् । यज्ञमारभ्य चेत् शक्तः कुर्य्याद्वै पशुचातनम । स तदाऽधोगतिं गच्छेदितरेषाञ्च का कथा । आवयोः पूजनं मोहाद् ये कुर्य्युर्मांसशोणितैः । पतन्ति कुम्भीपाके ते भवन्ति पशबः पुनः । फलकामास्तु वेदोक्तैः पशोरालभनं मखे । पुनस्तत्तत् फलं भुक्त्वा ये कुर्वन्ति पतन्त्यधः । स्वर्गकामोऽश्वमेघं यः करोति निग- माज्ञया । तद्भोगान्ते पतेद्भूयः स जन्मनि भवार्णवे । ये हताः पशवो लोकैरिह स्वार्थेषु कोविदैः । ते परत्र तु तान् हन्युस्तथा खड्गेन शङ्कर । आत्मपुत्रकलत्रादिसु- सम्पत्तिकुलेच्छया । यो दुरात्मा पशून् हन्यात् आत्मा- दीन् घातयेत् स तु” । जानन्ति नो वेद पुराणतत्त्वं ये कर्मठाः पण्डितमानयुक्ताः । लोकाधमास्ते नरके पतन्ति कुर्वन्ति मूर्खाः प्रशुघातनञ्चेत् । येऽज्ञानिनो मन्दधियो- ऽकृतार्था भवे पशुं घ्नन्ति न धर्मशास्त्रम् । जानन्ति नाकं नरकं न मुक्तिं गच्छन्ति धोरं नरकं नरास्ते । शुद्धा अकार्ष्णा न विदन्ति शाक्ता न धर्ममार्गं परमार्थतत्त्वम् । पापः न पुण्यं पशुधातका ये पूयोदवासो भवतीह तेषाम् । जीवानुकम्पां न विदन्ति मूढा भ्रान्ताश्च येऽस- त्पथिनोन धर्मम् । स्यार्त्ता भवे प्राणिबधं तु कुर्य्युस्ते यान्ति मर्त्याः खलु रौरवाख्यम् । ततस्तु खलु जन्तूनां घातनं नो करिष्यति । शुद्धात्मा धर्मवान् ज्ञानी प्राणा- न्तेनैव मानवः । यदीच्छेदात्मनः क्षेमं त्यक्त्वाऽज्ञानं तदा नरः । जीवान् कानपि नो हन्यात् सङ्कटापन्न एव चेत् । सम्पत्तौ च विपत्तौ वा परलोकेच्छुकः पुमान् । कदाचित् प्राणिनो हत्यां न कुर्य्यात् तत्त्ववित् सुधीः । मानवो यः परत्रेह तर्त्तुमिच्छेत् सदाशिव! । सर्वविष्णु- मयत्वेन न कुर्य्यात् प्राणिनां बधम् । बधाद्रक्षति या मर्त्यो जीवान् तत्त्वज्ञ! धर्मवित् । किं पुण्यं तम्बवक्ष्येऽहं ब्रह्माण्ड स तु रजति । यो रक्षेत् पःतमात् शम्भो! जीवमात्रं दयापरः । तष्ण प्रयतमो नित्यं मर्वरणां करोति सः । एकस्मिनक्षिते जीवे त्रैलोक्यं तेन रक्षि- तम् । बतात् शङ्कर! वै येन तस्माद्रक्षन्न घातवत । पशुहिंसाविधिर्यत्र पुराणे निगमे तथा । उक्तो राज स्तभोभ्यां स केवलं मनसापि वा । नरकस्वर्गसेवार्थं संसाराय प्रवर्त्तितः । तयोस्तत्कर्मभोगेन गमनागमनं भवेत् । सत्येन सात्त्वतग्रन्थे स विधिर्भैव शङ्कर । प्रवृत्तितो निवृत्तिस्तु यत्रापि सात्त्विकी क्रिया । एवं नानाविधं कर्म पशोरालभनादिकम् । कामाशयः फला- काङ्क्षीकृत्वाऽज्ञानेन मानवः । पश्चाज्ज्ञानासिना च्छित्वा भ्रान्त्याशां तामसीं सदा । यमभीतिहरं भक्त्या यदि गोविन्दमाश्रयेत् ।” पाद्मोत्तरखण्डे १०४ १०५ अ० ।


शब्दकल्पद्रुमः

ब(व)लिः || स्त्री (बलति संवृणोतीति । बल संवरणे + इन् ।)
जरया श्लथचर्म्म । तत्- पर्य्यायः । चर्म्मतरङ्गः २ त्वगूर्म्मिः ३ त्वक्- तरङ्गः ४ । इति राजनिर्घण्टः ॥ जठरा- वयवः । (यथा, कुमारे । १ । ३९ । “मध्येन सा वेदिविलग्नमध्या बलित्रयं चारु बभार बाला ॥”)
गृहदारुप्रभेदः । इति मेदिनी । ले, ५ ॥ गुदा- ङ्कुरः । यथा, —
“पञ्चात्मा मारुतः पित्तं कफो गुदबलित्रयम् । सर्व्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ॥ तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च । सर्व्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ॥ * ॥
वाह्यायान्तु बलौ जातान्येकदोषोल्वणानि च । अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ॥ द्वन्द्वजानि द्बितीयायां बलौ यान्याश्रितान्यपि । कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ॥ सहजानि त्रिदोषाणि यानि चाभ्यन्तरा बलिम् । जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्द्दि- शेत् ॥” इति माधवकरः ॥ (यथा च । “तत्र स्थूलान्त्रप्रतिबद्धमर्द्धपञ्चाङ्गुलं गुदमाहुस्तस्मिन् बलयस्तिस्रोऽध्यर्द्धाङ्गुलान्तर- भूताः प्रवाहणी विसर्ज्जनी संवरणी चेति । चतुरङ्गुलायताः सर्व्वास्तिर्य्यगेकाङ्गुलोच्छ्रिताः । शङ्खावर्त्तनिभाश्चापि उपर्य्युपरि संस्थिताः । गजतालनिभाश्चापि वर्णतः संप्रकीर्त्तिताः ॥” इति सुश्रुते निदानस्थाने द्बितीयेऽध्याये ॥ गन्धकः । तत्पर्य्यायो यथा, “गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि । सौगन्धिकश्च कथितो बलिर्बलरसापि च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)


शब्दकल्पद्रुमः

बलिः || पुं, (बल्यते दीयते इति । बल दाने + “सर्व्व- धातुभ्य इन् ।” उणा० ४ । ११७ । इतीन् ।)
करः । राजग्राह्यो भागः । (यथा, मनुः । ७ । ८० । “सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् ॥” “राजा शक्तैरमात्यैर्वर्षग्राह्यं धान्यादिभाग- मानयेत् ।” इति कुल्लूकभट्टः ॥)
उपहारः । पूजासामग्री । इत्यमरभरतौ ॥ (यथा, मार्क- ण्डेये । ९३ । ८ । “ददतुस्तौ बलिञ्चैव निजगात्रासृगुक्षितौ ॥”)
चामरदण्डः । बलिवैश्वनामकपञ्चमहायज्ञान्त- र्गतभूतयज्ञः । इति हेमचन्द्रः । ३ । ४८६ ॥ (गृहस्थो हि पञ्चसूनापापेन प्रतिदिनं संबध्यते । तन्निष्कृ- त्यर्थं प्रत्यहं पञ्च महायज्ञाः कर्त्तव्याः । यथाह मनुः । ३ । ६८ — ७१ । “पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥ तासां क्रमेण सर्व्वासां निष्कृत्यर्थं महर्षिभिः । पञ्च कॢप्ता महायज्ञा प्रत्यहं गृहमेधिनाम् ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः । स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ॥” “पशुवधस्थानं सूना । सूना इव सूना हिंसा- स्थानगुणयोगात् । चुल्ल्यादयः पञ्च गृहस्थस्य जीवहिंसास्थानानि । चुल्ली उद्बाहनी । पेषणी दृषदुपलात्मिका । उपस्करः गृहोपकरण- कुण्डसंमार्जन्यादिः । कण्डनी उदूखलमूषले । उदकुम्भो जलाधारकलशः ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥
गृहस्थानां बलिरूपभूत- यज्ञस्य प्रतिदिनकर्त्तव्यतया तस्य विस्तृतिरुच्यते । गृहस्थः अनन्यचित्तो देवताध्यानपर एव होमान् कृत्वा प्राच्यादिषु दिक्षु बलिं हरेत् । तत्प्रकरणमाह । प्राच्यां इन्द्राय नमः । इन्द्र- पुरुषेभ्यो नमः । दक्षिणस्यां यमाय नमः । यमपुरुषेभ्यो नमः । पश्चिमायां वरुणाय नमः । वरुणपुरुषेभ्यो नमः । उत्तरस्यां सोमाय नमः । सोमपुरुषेभ्यो नमः । ननु मनौ । ३ । ८७ । “इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ।” इत्युक्तेः अन्तकाय नमः । अन्तकपुरुषेभ्यो नमः इत्यादिप्रयोगः साधुः स्यात् । अत उच्यते यद्यपि शब्दावगम्यत्वाद्देवतात्वस्यान्तकाप्पतीन्दु- शब्दैरेवोद्देशो युक्तस्तथापि बह्वृचानुष्ठानसंवा- दाद्बह्वृचगृह्ये च यमाय यमपुरुषेभ्यो वरु- णाय वरुणपुरुषेभ्यो सोमाय सोमपुरुषेभ्य इति प्रतिदिशमिति पाठात् यथोक्त एव प्रयोगः । मरुद्भ्यो नमः इति द्वारे बलिं दद्यात् । जले अद्भ्यो नमः । मुषलोलूखले वन- स्पतिभ्यो नमः । वास्तुपुरुषस्य शिरःप्रदेशे उत्तरपूर्ब्बस्यां दिशि श्रियै नमः इति बलिं दद्यात् । वास्तुपुरुषस्य पाददेशे दक्षिणपश्चि- मायां दिशि भद्रकाल्यै नमः । इत्यनेन दद्यात् । केचित्तु गृहस्थशयनस्य शिरःस्थान-भूप्रदेशे श्रियै नमः । चरणभूप्रदेशे भद्रकाल्यै नमः इत्याहुः । ततो गृहमध्ये ब्रह्मणे पतये नमः बास्तोः पतये नमः इत्यनेन बलिं हरेत् । गृहा- क्राशे विश्वेभ्यो देवेभ्यो नमः । दिवाचरेभ्यो भूतेभ्यो नमः । दिवानक्तञ्चारिभ्यो भूतेभ्यो नमः इत्यनेन दद्यात् । गृहस्योपरिस्थितगृहे सर्व्वात्मभूतये नमः इत्यनेन बलिं दद्यात् । केचित् बलिदातुः पृष्ठदेशस्थभूभागे सर्व्वात्म- भूतये नम इत्यनेन दद्यादित्याहुः । ततो बलि- दात्रा प्राचीनावीतिना दक्षिणामुखेन च सता उक्तबलिदानावशिष्टं सर्व्वमन्नं दक्षिणस्यां दिशि पितृभ्यः स्वधा इत्यनेन देयम् । ततोऽन्यदन्नं पात्रे समुद्धृत्य यथा रजसा न संगृह्यते तथा भुवि शनकैः श्वपतितचाण्डालपापरोगिव्रायस- कृमिप्रभृतिभ्यो दद्यात् । एवं नित्यं कुर्व्वन् परं स्थानमभ्येतीति ॥ * ॥
)
यथा, —
“येऽर्च्चयन्ति सदा विष्णुं निश्चलेनान्तरात्मना । न ते भूयोऽभिजायन्ते श्वेतद्वीपनिवासिनः ॥ एवं पूज्य विधानेन अतिथिं भोजयेत्ततः । सायं प्रातर्यदन्नं स्याद्धुत्वाग्निं तेन तद्बलिम् ॥” इति वह्निपुराणम् ॥ * ॥
“ततोऽग्नेस्तर्पणं कुर्य्याद्दद्याच्च बलिमित्यथ । ब्रह्मणे गृहमध्ये तु विश्वेदेवेभ्य एव च ॥ धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां वलिं क्षिपेत् । प्राच्यां शक्राय याम्यायां यमाय बलिमाहरेत् ॥ प्रतीच्यां वरुणायैव सोमायोत्तरतो बलिम् । दद्याद्धात्रे विधात्रे च बलिं द्वारे गृहस्य च ॥ अर्य्यम्णे च बलिं दद्यात् गृहेभ्यश्च समन्ततः । नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ॥ पितॄणां निर्व्वपेच्चैव दक्षिणाभिमुखः स्थितः । गृहस्थस्तत्परो भूत्वा सुसमाहितमानसः ॥ ततस्तोयमुपादाय तिष्ठेदाचमनाय वै । स्थानेषु निक्षिपेत् प्राक्षस्तास्ता उद्दिश्य देवताः ॥ एवं गृहबलिं कृत्वा गृहे गृहपतिः शुचिः । आप्यायनाय भूतानां कुर्य्यादुत्सर्गमादरात् ॥ श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भु वि । वैश्वदेवं हि नामैतत् सायं प्रातरुदाहृतम् ॥” इति मार्कण्डेयपुराणम् ॥ * ॥
अथ बलिः । वैश्वदेवपश्चाद्भूमौ जलं क्षिप्त्वा तच्छेषान्नेन साङ्गुष्ठेन देवतीर्थेन ॐ विश्वेभ्यो देवेभ्यो नमः इति बलिं दद्यात् तदुपरि जल- मनेन मन्त्रेण दद्यात् एवं सर्व्वत्र जलप्रक्षेपः । तदुत्तरे ॐ सर्व्वेभ्यो देवेभ्यो नमः । उभयो- र्द्दक्षिणे प्राचीनावीती पातितवामजानुर्दक्षिणा- मुखो दक्षिणाग्रकुशत्रयोपरि सतिलमन्नं भुग्न- कुशत्रयेण पितृतीर्थेन ॐ पितृभ्यः स्वधा । ततः सर्व्वेषां बलीनामुपरि सर्व्वत्र प्रत्येकं जल- निषेकः । तत उपवीती देवतीर्थेन बलिपात्र- प्रक्षालनोदकेनान्नेन ऐशान्यां ॐ यक्ष्णैतत्ते नमस्तेऽस्तु मा माहिंसीः ॐ यक्ष्मणे नमः इत्य- नेन दद्यात् जलञ्च देयम् ॥ इत्यावश्यकबलिः ॥ * ॥
अथ काम्यबलिः । बलीनां पश्चिमे जलेनोत्तराग्रां रेखां कृत्वा भूमौ जलं दत्त्वा, —
“ॐ देवा मनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसंघाः । प्रेताः पिशाचास्तरवः समस्ता ये चान्नमिच्छन्ति मया प्रदत्तम् ॥ पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्म्मनिबन्धदेहाः । प्रयान्तु ते तृप्तिमिदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवन्तु ॥ येषां न माता न पिता न बन्धु- र्नैवान्नसिद्धिर्न तथान्नमस्ति । तत्तृप्तयेऽन्नं भुवि दत्तमेतत् प्रयान्तु तृप्तिं मुदिता भवन्तु ॥ ॐ भूतानि सर्व्वाणि तथान्नमेत- दहञ्च विष्णुर्न यतोऽन्यदस्ति । तस्मादहं भूतनिकायभूत- मन्नं प्रयच्छामि भवाय तेषाम् ॥ चतुर्द्दशो भूतगणो य एष तत्र स्तिता येऽखिलभूतसंघाः । तृप्त्यर्थमन्नं हि मया विसृष्टं तेषामिदन्तेऽमुदिता भवन्तु ॥” इत्युच्चार्य्य बलिं दद्यात् । “ॐ ऐन्द्रवारुणवायव्याः सौम्या वै नैरृ ता- स्तथा । वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम् ॥” ॐ वायसेभ्यो नम इति पुनर्जलं देयम् । भूमौ जलं दत्त्वा, —
“ॐ श्वानौ द्वौ श्यावशवलौ वैवश्वतकुलोद्भवौ । ताभ्यां पिण्डं प्रयच्छामिस्यातामेतावहिंसकौ ॥” ॐ श्वभ्यां नमः ततः पुनर्जलं देयम् । भूमौ जलं दत्त्वा ॐ चण्डालपतितपापरोगिभ्यो नमः पुनर्जलं देयम् । भूमौ जलं दत्त्वा ॐ धर्म्म- राजचित्रगुप्ताभ्यां नमः ततः पुनर्जलदानम् । ततो जलं स्पृष्ट्वा अग्निं विसृज्य नमस्कत्य संप्राप्य जले क्रियमाणे बलीनग्नौ जले वा क्षिपेत् पिण्डवत् । अन्नाभावे केवलजलेन पात्रान्तरस्थजले कुर्य्यात् । ततः कुशकुसुम- सहितं जलपूर्णं ताम्रादिपात्रं हस्ते निधाय महावामदेव्य ऋषिर्विराड्गायत्त्री छन्द इन्द्रो देवता शान्तिकर्म्मणि जपे विनियोगः । ॐ कयानश्चित्र आभूवदूती सदा वृधः सखा कया सचिष्ठया वृता । ॐ कस्त्वा सत्यो मदाना- मंहिष्ठो मत्सदन्धसः दृढाचिदारुजे वसु । ॐ अभीषूणः सखीनामविता जरितॄणां शतम्भवा- स्यूतये । इति वामदेव्यं गीत्वा गानाशक्तौ त्रिः पठित्वा ॐ स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः । स्वस्तिनस्तार्क्ष्योऽरिष्टनेमिः स्वस्तिनो बृहस्पतिर्दधातु । ॐ स्वस्तीति त्रिः पठेत् । पार्व्वणश्राद्धादिकरणे पार्व्वणादिकं कृत्वैव वैश्वदेवादिकं कार्य्यं रात्रावपि पाकसत्त्वे यत्किञ्चिद्द्रव्यसत्त्वे वा वैश्वदेववलिकर्म्मणी कुर्य्यात् । शूद्रस्तु ब्राह्मणाभावे मन्त्रार्थं भावयन् नमो नम इति मन्त्रेण कुर्य्यात् । अषिभक्ताना- मेककरणादेव सर्व्वेषां सिद्धिः । इत्याह्निका- चारप्रयोगतत्त्वम् ॥ * ॥
नवग्रहबलिर्यथा, —
“गुडौदनं रवेर्दद्यात् सोमाय घृतपायसम् । यावकं मङ्गलायैव क्षीरान्नं सोमसूनवे ॥ दध्योदनञ्च जीवाय शुक्राय तु घृतौदनम् । शनैश्चराय कृशरमाजमांसञ्च राहवे ॥ चित्रौदनञ्च केतुभ्यः सर्व्वभक्ष्यैः समर्च्चयेत् ॥” सर्व्वभक्ष्यैस्तु तत्तद्द्रव्याभावे यथालाभोपपन्नै- र्भक्ष्यैः । इति ग्रहयज्ञतत्त्वम् ॥ * ॥
दैत्यभेदः । इति मेदिनी । (अयं सावर्णस्य मनो- रन्तरे इन्द्र आसीत् । यथा, मार्कण्डेये । ८० । १० । “तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने ! ॥”)
स च दैत्यो विरोचनपुत्त्रः । तस्य अशनायां पत्न्यां वाणज्येष्ठं पुत्त्रशतं जातम् । इति श्रीभागवतम् ॥ यथा, —
“विरोचनस्य पुत्त्रस्तु बलिरेकः प्रतापवान् । बलेः पुत्त्रशतं जज्ञे राजानः सर्व्व एव ते ॥ तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः । सहस्रबाहुर्ज्येष्ठश्च कन्ये द्वे च बलेः शुभे ॥ बलेः पुत्त्राश्च पौत्त्राश्च शतशोऽथ सहस्रशः । बालेयो नाम विख्यातो गणो विक्रान्तपौरुषः ॥” इत्यग्निपुराणम् ॥ तस्य पूर्ब्बजन्मवृत्तान्तो यथा, — शुक्र उवाच । “धर्म्मध्वजो नाम बभूव राजा विदेहदेशे निजधर्म्मशीलः । यज्वा सुवाग्मी शुभकर्म्मकर्त्ता स विष्णुभक्तोऽनुदिनं महात्मा ॥ तस्य त्वमासीर्नृपतेः सुभृत्यो द्वेष्टा द्विजानां पिशुनोऽविवेकी । द्वेष्टा गुरूणां सततं त्वदाता नो साध्वसं ते वत पारलौक्यम् ॥ एवंविधस्त्वं वृपसत्तमेन प्रोक्तः कुरुष्वाघविनाशनाय । स्नानं हरेर्येन सुखं हि लप्स्ये लोके परे गव्यघृतेन वापि ॥ श्रुत्वा भवांस्तद्वचनञ्चकार स्नानं ह्यनेनापि जनार्द्दनस्य । दानं तथा गोः कृतवान् विभक्त्या तस्मात् फलं विद्धि तवाप्रमेयम् ॥ एवं त्वया प्राप्यमशेषराज्यं देवासुराणामहतं विपक्षैः । संलप्स्यसे त्वं पुनरेव सर्व्वं संपूजयन् भक्तियुतः सुरेशम् ॥” इत्यग्निपुराणम् ॥ बलिराजयज्ञे वामनदेवभिक्षा । यथा, — लोमहर्षण उवाच । “सपर्व्वतवनामुर्व्वीं दृष्ट्वा संक्षुभितां बलिः । पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः ॥ आचार्य्य क्षोभमायाति साब्धिभूभृद्बना मही । कस्माच्च नासुरान् भागान् प्रतिगृह्णन्ति वह्नयः ॥ इति पृष्टोऽथ बलिना काव्यो वेदविदांवरः । उवाच दैत्याधिपतिं चिरं ध्यात्वा महामतिः ॥ अवतीर्णो जगद्योनिः कश्यपस्य गृहे हरिः । वामनेनेह रूपेण परमात्मा सनातनः ॥ स नूनं यज्ञमायाति तव दानवपुङ्गव ! । तस्य पादप्रविक्षेपादियं प्रचलिता ही ॥ इत्यमस्य जगद्धातुर्माया कृष्णस्य सात्वती । तत्सन्निधानादसुरा भागार्हा नासुरोत्तम ! ॥ भुञ्जते नासुरान् भागानपि तेन त्रयोऽग्नयः । शुक्रस्य वचनं श्रुत्वा हृष्टलोमाब्रवीद्बलिः ॥ धन्योऽहं कृतपुण्यश्च यतो जगत्पतिः स्वयम् । यज्ञमभ्यागतो ब्रह्मन् ! मत्तः कोऽन्योऽधिकः पुमान् । यं योगिनः सदोद्युक्ताः परमात्मानमव्ययम् ॥ द्रष्टुमिच्छन्ति देवोऽसौ ममाध्वरमुपैष्यति । यन्मयाचार्य्य ! कर्त्तव्यं तन्ममादेष्टुमर्हसि ॥ शुक्र उवाच । त्वयास्य दैत्याधिपते ! स्वल्पकेऽपि हि वस्तुनि । प्रतिज्ञा नैव वोढव्या वाच्यं साम तथा फलम् ॥ बलिरुबाच । ब्रह्मन् ! कथमहं ब्रूयामन्येनापि हि याचितः । नास्तीति किमु देवेशे संसाराघौघहारिणि ॥ लोमहर्षण उवाच । इत्येवं वदतस्तस्य सम्प्राप्तः स जनार्द्दनः । सर्व्वदेवमयोऽचिन्त्यो मायावामनरूपधृक् ॥ तं दृष्ट्वा यज्ञवाटन्तु प्रविष्टमसुराः प्रभुम् । जग्मुः प्रभावात् क्षोभन्ते तेजसा तस्य निष्प्रभाः ॥ स चार्घ्यमादाय बलिः प्रोद्भूतपुलकस्तदा । पूजयामास गोविन्दं प्राह चेदं महासुरः ॥ बलिरुवाच । सुवर्णरत्नसंघातान् गजाश्वमहिषांस्तथा । स्त्रियो वस्त्राण्यलङ्कारान् गावः कुप्यञ्च पुष्क- लम् । तद्ददामि वृणुष्वेष्टं ममार्थी सततं प्रियः ॥ इत्युक्तो दैत्यपतिना प्रीतिगर्भान्वितं वचः । प्राह सस्मितगम्भीरं भगवान् वामनाकृतिः ॥ ममाग्निशरणार्थाय देहि भूमिं पदत्रयाम् । सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् ॥ एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः । ददौ तस्मै महाबाहुर्व्वामनाय पदत्रयम् ॥ पाणौ तु पतिते तोये वामनोऽभूदवामनः । सर्व्वदेवमयं रूपं दर्शयामास तत्क्षणात् ॥ जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान् । पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥ सुतलं नाम पातालमधस्ताद्वसुधातलम् । बलेर्द्दत्तं भगवता विष्णुना प्रभविष्णुना ॥ अथ दैत्येश्वरं प्राह विष्णुः सर्व्वेश्वरेश्वरः । यत्त्वया सलिलं दत्तं गृहीतं पाणिना मया ॥ कल्पप्रमाणं तस्मात्ते भविष्यत्यायुरुत्तमम् । वैवस्वते तथातीते बले ! मन्वन्तरे तथा ॥ सावर्णिके तु संप्राप्ते भवानिन्द्रो भविष्यति । इदानीं भुवनं दत्तं सर्व्वं शक्राय सर्व्वदा ॥ यदा सुरैश्च विप्रैश्च विरोधं त्वं करिष्यसि । बन्धिष्यति तदा पाशो वारुणो घोरदर्शनः ॥ बलिरुवाच । तत्रासतो मे पाताले भगवन् ! भवदाज्ञया । किं भविष्यत्युपादानमुपभोगोपयोगकम् ॥ श्रीभगवानुवाच । दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च । कृतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ॥ अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः । फलानि तव दास्यन्ति ह्यधीतान्यव्रतानि च ॥ उदकेन विना पूजा विना दर्भेण या क्रिया । आज्येन च विना होमं फलदास्ते च ते बले ! ॥” इति वामनपुराणे ३१ अध्यायः ॥ * ॥
ययातिवंशोद्भवसुतपोराजपुत्त्रः । यथा, विष्णु- पुराणे । ४ । १८ । १ । “तिति क्षोरपि रुष- द्रथः पुत्त्रोऽभूत् तस्यापि हेमः हेमस्य सुतपाः सुतपसश्च बलिः ॥” (तथा च भागवते । ९ । २३ । ४ । “ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् ॥” मुनिविशेषः । यथा, महाभारते । २ । ४ । १० । “अर्व्वावसुः सुमित्रश्च मैत्रेयः सुनको बलिः ॥”)
देवतोद्देशेन घातार्थोपकल्पितच्छागादिः । यथा, भविष्ये । “अजानां महिषाणाञ्च मेषाणाञ्च तथा वधात् । प्रीणयेद्विधिवत् दुर्गां मांसशोणिततर्पणैः ॥” इति । पशुघातपूर्ब्बकरक्तशीर्षयोर्ब्बलित्वम् । यथा, —
“स्थाने नियोजयेद्रक्तं शिरश्च सप्रदीपकम् । एवं दत्त्वा बलिं पूर्णं फलं प्राप्नोति साधकः ॥” इति च दुर्गोत्सवतत्त्वम् ॥ * ॥
तच्छेदनार्थखड्गलक्षणमाह निबन्धतन्त्रे । “द्वादशाङ्गुलिको मुष्ट्या दीर्घो द्वात्रिंशदङ्गुलः । षडङ्गुलस्तु विस्तारः खड्गः कार्य्यो विधूपमः ॥ छेदयेत्तेन खड्गेन बलिं पूर्ब्बमुखस्थितम् । अथवोत्तरवक्त्रञ्च स्वयं पूर्ब्बाननस्ततः ॥” * ॥
सकृत्प्रहारेण बलिहननं तदभावे दोषञ्चाह तत्रैव । “हन्यादेकप्रहारेण स्वयं वा चान्यतोऽपि वा ॥ यद्यप्येकेन घातेन बलिच्छेदो न जायते । तदब्दं व्याप्य च महान् कर्त्तुर्हानिः पदे पदे ॥” तन्त्रान्तरे । “एकखड्गप्रहारेण पशुर्यत्र न हन्यते । तदा विघ्नं विजानीयात् कर्त्तुर्व्वा छेत्तुरेव वा ॥” निबन्धेऽपि । “यशोहानिर्ज्ञानहानिश्चार्थहानिस्ततः परम् । पुत्त्रहानिः सुते सत्त्वे तदसत्त्वे निजक्षयः ॥ अतः सद्यो महेशानि ! तन्मांसैर्होमयेत् सुधीः । होमादेष भवेच्छान्तिर्म्महत्येव न संशयः ॥” * ॥
प्रकारान्तरशान्तिमाह तत्रैव । “हन्यादेकप्रहारेण चान्यथा दोषमावहेत् ॥ तच्छान्तये जपेद्विद्यां तारादेव्याः सहस्रकम् । सहस्रं जुहुयान्मांसैद्दद्याद्बा स्वर्णमाषकम् ॥ रुधिरं तत्तु पार्व्वत्यै न तु देयं कदाचन । बलिमन्यं समादाय भगवत्यै निवेदयेत् ॥” * ॥
निबन्धे । “यद्यप्येकेन घातेन महिषो नैव छिद्यते । तदब्दं महती हानिः कर्त्तुः पुत्त्रादिसम्पदाम् ॥ यस्मात् प्रजायते देवि ! ततः शान्तिं समाचरेत् ॥ आनीय महिषं तत्र घातयित्वा च तत्र वै । सास्थिभिर्लोमसहितैर्हुनेद्देवि ! यथार्थतः ॥ तच्छान्तये जपेद्विद्यां कालीं वा तारिणां पराम् । अयुतं परमेशानि ! सहस्रं वापि साधकः ॥ सहस्रं विल्वपत्रैस्तु जुहुयात् संस्कृतेऽनले । ब्राह्मणं वा गुरुं वापि वरयेद् वसुभिः प्रिये ! ॥ पण्डितं वरयेद्वाथ बहुमानपुरःसरः । ततः स्वर्णं ब्राह्मणाय तस्मे दद्यात् शुभाप्तये ॥ एवञ्चेद्यजमानस्य शान्तिभवति नित्यशः । कुतस्तस्यैव शङ्का स्यात् वृद्धिस्तद्वत्सरावधि ॥ * अथवा सर्व्वतोभद्रे नवकुम्भं निधापयेत् । सौवर्णं राजतं वापि ताम्रं वा तैजसन्तु वा । मार्त्तिक्यं वा चरेत्तत्र वित्तशाठ्यं न चाचरेत् ॥ तत्रैव कालिकां तारां तथा महिषमर्द्दिनीम् । यजेद्वा त्रिपुरां देवीं समस्तरश्मिमण्डिताम् ॥ कुलदीपैस्तथा वस्त्रैर्धनधान्यादिभिः प्रिये ! । पूजयेत् परमेशानीं वित्तशाठ्यविवर्ज्जितः ॥ बलिमन्यं छागलं वा तरुणञ्च सुलक्षणम् । घातयित्वा पुरोभागे चतुर्धा शोणितं न्यसेत् ॥ अपरं शोणितं तत्र राजते खर्परे न्यसेत् । असृग्भिस्तर्पयेद्दवीं वक्ष्यमाणविधानतः ॥ एकेन वटुकादींश्च तथैकेनापि भैरवान् । अपरेणापि क्षेत्रेशानन्येन योगिनीगणम् ॥ तर्पयित्वा ततः पश्चाद्देव्यास्तर्पणमाचरेत् । दक्षिणान्तं ततः कृत्वा पठेन्नामसहस्रकम् ॥ यथाशक्ति महेशानि ! भूयो देवीं घटे यजेत् । घटवक्त्रे वटाश्वत्थप्लक्षोडम्बरशाखिकाम् ॥ ब्रह्मकूर्च्चञ्च निःक्षिप्य चषकं सफलाक्षतम् । पिधाय कुम्भवक्त्रञ्च क्षौमेणाच्छादयेत् पुनः ॥ जप्त्वा नत्वा ततः साध्यं तत्रानीय सुहृद्वृतम् । नदतसु पञ्चवाद्येषु मुहूर्त्ते शोभने सुधीः ॥ अभिषिञ्चेन्मातृकार्णैर्यजमानञ्च साधकः । सुमङलाभिर्नारीभिः क्षिप्तपुष्पाक्षताञ्चितम् ॥ अर्च्चितानां द्विजातीनामाशीर्व्वादपुरःसरम् । करेणास्य शिरः स्पुष्ट्वा प्रयुञ्जीताशिषं पुनः ॥ भद्रमस्तु शिवञ्चास्तु महामाया प्रसीदतु । रक्षन्तु त्वां सदा देवाः सम्पदः सन्तु सर्व्वदा ॥ अथोत्थायाभिषिक्तः सन् तोषयेद्ब्राह्मणान् धनैः । एवञ्चेद्यजमानस्य शान्तिर्भवति नित्यदा ॥ प्रसङ्गाद्बलिविघ्नस्य शान्तिकर्म्म निरूपितम् । सर्व्वसम्पत्करं पुंसां सर्व्वसौभाग्यसिद्धिदम् । भूते च दुर्निमित्तादावप्येवं शान्तिमाचरेत् ॥” इति निबन्धतन्त्रोक्तबलिविघ्नशान्तिसंग्रहः ॥ * ॥
अन्यच्च । “एकखड्गप्रहारेण पशुर्यत्र न हन्यते । तदा विघ्रं विजानीयाद्दातुर्व्वा च्छेत्तुरेव वा ॥” प्रायश्चित्तमाह । “हन्यादेकप्रहारेण अन्यथा दोषमावहेत् । तच्छान्तये जपेद्विद्यां दुर्गाबीजसहसकम् । सहस्रं जुहुयाद्देव्यै प्रदद्यात् स्वर्णमाषकम् ॥” इति कृत्यमहार्णवे वाचस्पतिमिश्रैरुक्तम् ॥ * ॥
अपरञ्च कालिकापुराणे । “चन्द्रहासेन कट्टारैश्छेदनं मुख्यमिष्यते । हस्तेन च्छेदयेद्यस्तु प्रोक्षितं साधकः पशुम् । पक्षिणं वाथ राजेन्द्र ! ब्रह्महत्यामवाप्नुयात् ॥” मत्स्यसूक्ते । “छेदयेत्तीक्ष्णखड्गेन प्रहारेण सकृद्बुधः ॥” इति दुर्गोत्सवतत्त्वम् ॥ पश्वादिबलिदानविधिर्यथा, —
“बलिदानषिधानञ्च श्रूयतां मुनिसत्तम ! । मायातिं महिषं छागं दद्यान्मेषादिकन्तथा ॥ सहस्रवर्षं सा प्रीता दुर्गा मायातिदानतः । महिषेण वर्षशतं दशवर्षञ्च छागलात् ॥ वर्षमेकेन कुष्माण्डैः पक्षिभिर्हरिणैस्तथा । दशवर्षं कृष्णसारैः सहस्राब्दञ्च गण्डकैः ॥ कृत्रिमैः पिष्टनिर्म्माणैः षण्मासं पशुभिस्तथा । मासं सुशाखादिफलैरक्षतैरिति नारद ! ॥ युवकं व्याधिहीनञ्च सशृङ्गं लक्षणान्वितम् । विशुद्धमविकाराङ्गं सुवर्णं पुष्टमेव च ॥ शिशुना बलिना दातुर्हन्ति पुत्त्रञ्च चण्डिका । वृद्धेनैव गुरुजनं कृशेन बान्धवन्तथा ॥ कुलञ्चैवाधिकाङ्गेन हीनाङ्गेन प्रजान्तथा । कामिनीं शृङ्गभङ्गेन काणेन भ्रातरन्तथा ॥ घण्टिकेन भवेन्मृत्युर्विघ्नञ्च चित्रमस्तके । मृतं मित्रं ताम्रपृष्ठे भ्रष्टश्रीः पुच्छहीनके ॥ मायातीनाञ्च निर्णीतं श्रूयतां मुनिसत्तम् ! । वक्ष्याम्यथर्व्ववेदोक्तं फलहानिर्व्यतिक्रमे ॥” * ॥
अथ नरबलिः । “पितृमातृविहीनञ्च युवकं व्याधिवर्जितम् । विवाहितं दीक्षितञ्च परदारविहीनकम् ॥ अजारिकं विशुद्धञ्च सच्छूद्रं मूलकं वरम् । तद्बन्धुभ्यो धनं दत्त्वा क्रीतं मूल्यातिरेकतः ॥ स्नापयित्वा च तं धर्म्मी संपूज्य वस्त्रचन्दनैः । माल्यैर्धूपैश्च सिन्दूरैर्दधिगोरोचनादिभिः ॥ तञ्च वर्षं भ्रामयित्वा चरद्बारेण यत्नतः । वर्षान्ते च समुत्सृज्य दुर्गायै तं निवेदयेत् ॥ अष्टमीनवमीसन्धौ दद्यान्मायातिमेव च । इत्येवं कथितं सर्व्वं बलिदानप्रसङ्गतः ॥” * ॥
अपि च । “सप्तम्यां पूजनं कृत्वा बलिं दद्याद्विचक्षणः । अष्टम्यां पूजनं शस्तं बलिदानविवर्ज्जितम् ॥ अष्टम्यां बलिदानेन विपत्तिर्जायते ध्रुवम् । दद्याद्विचक्षणो भक्त्या नवम्यां विधिवद्बलिम् ॥ बलिदानेन विप्रेन्द्र ! दुर्गाप्रीतिर्भवेन्नृणाम् । हिंसाजन्यञ्च पापञ्च लभते नात्र संशयः ॥ उत्मर्गकर्त्ता दाता च च्छेत्ता पोष्टा च रक्षकः । अग्रपश्चान्निरोद्धा च सप्तैते वधभागिनः ॥ योऽयं हन्ति स तं हन्ति चेति वेदोक्तमेव च । कुर्व्वन्ति वैष्णवीं पूजां वैष्णवास्तेन हेतुना ॥” इति ब्र ह्मवैवर्त्ते प्रकृतिखण्डे । ६१-६२ । अध्यायौ ॥ श्रीभगवानुवाच । “क्रमन्तु बलिदानस्य स्वरूपं रुधिरादिभिः । यथा स्यात् प्रीतये सम्यक् तथा वक्ष्यामि पुत्त्रकौ ॥ वैष्णवीतन्त्रकल्पोक्तः क्रमः सर्व्वत्र सर्व्वदा । साधकैर्व्वलिदानेषु ग्राह्यः सर्व्वसुरस्य तु ॥ पक्षिणः कच्छपा ग्राहा मत्स्या नवविधा मृगाः । महिषो गोधिका गावश्छागो बभ्रूश्च शूकरः ॥ खड्गश्च कृष्णसारश्च गोधिका सरभो हरिः । शार्द्दूलश्च नरश्चैव स्वगात्ररुधिरन्तथा । चण्डिकाभैरवादीनां बलयः परिकीर्त्तिताः ॥ बलिभिः साध्यते मुक्तिं बलिभिः साध्यते दिवम् । बलिदानेन सततं जयेत् शत्रून् नृपान् नृपः ॥ * ॥
मत्सानां कच्छपानाञ्च रुधिरैः सततं शिवा । मासैकन्तृप्तिमायाति ग्राहैर्मासांस्तु त्रीनथ ॥ मृगाणां शोणितैर्देवी नराणामपि शोणितैः । अष्टौ मासानवाप्नोति तृप्तिं कल्याणदा च सा ॥ गोगोधिकानां रुधिरैर्व्वार्षिकीं तृप्तिमाप्नुयात् ॥ कृष्णसारस्य रुधिरैः शूकरस्य च शोणितैः । आप्नोति सततं देवी तृप्तिं द्बादशवार्षिकीम् ॥ अजाविकानां रुधिरैः पञ्चविंशतिवार्षिकीम् । महिषाणाञ्च खड्गानां रुधिरैः शतवार्षिकीम् । तृप्तिमाप्नोति परमां शार्द्दूलरुधिरैस्तथा ॥ सिंहस्य सरभस्याथ स्वगात्रस्य च शोणितैः । देवी तृप्तिमवाप्नोति सहस्रं परिवत्सरान् ॥ मांसैरपि तथा प्रीती रुधिरैर्यस्य यावती ॥ कृष्णसारमृते खड्गं तथा मत्स्यञ्च रोहित्रम् । वार्द्धीनसयुगञ्चापि फलं तेषां पृथक् शृणु ॥ * ॥
कृष्णसारस्य मांसेन तथा खड्गेन चण्डिका । वर्षान् पञ्चशतान्येव तृप्तिमाप्नोति केवलाम् ॥ रोहितस्य तु मत्स्यस्य मांसैर्वार्द्धीनसस्य च । तृप्तिमाप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया ॥ त्रिःपिबंस्त्विन्द्रियक्षीणः श्वेतो वृद्धस्त्वजापतिः । वार्द्धीनसः प्रोच्यतेऽसौ हव्ये कव्ये च सत्कृतः ॥ नीलग्रीवो रक्तशीर्षः कृष्णपादः शितच्छदः । वार्द्धीनसः स्यात् पक्षीशो मम विष्णोरतिप्रियः ॥ नरेण वलिना देवी सहस्रं परिवत्सरान् । विधिदत्तेन चाप्नोति तृप्तिं लक्षं त्रिभिर्नरैः ॥ नारेणैवाथ मांसेन त्रिसहस्राणि वत्सरान् । तृप्तिं प्राप्नोति कामाख्या भैरवो मम रूपधृक् ॥ मन्त्रपूतं शोणितन्तु पीयूषं जायते सदा । मस्तकञ्चापि तस्यात्ति मांसञ्चापि सदा शिवा ॥ तस्मात्तु पूजने दद्याद्बलेः शीर्षञ्च लोहितम् । भोज्ये होमे च मांसानि नियुञ्जीयाद्विचक्षणः ॥ पूजासु नाम मांसानि द्द्याद्वै साधकः क्वचित् । ऋते तु लोहितं शीर्षममृतं तत्तु जायते ॥ * ॥
कुष्माण्डमिक्षुदण्डञ्च मद्यमासवमेव च । एते वलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा ॥ चन्द्रहासेन कर्त्र्या वा छेदनं मुख्यमिष्यते । दात्रासिधेनुक्रकचसङ्कुलाभिस्तु मध्यमम् । क्षुरक्षुरप्रभल्लैश्चैवाधमं परिकीर्त्तितम् ॥ एभ्योऽन्यैः शक्तिबाणाद्यैर्बलिश्छेद्यः कदापि न । नात्ति देवी वलिं तन्तु दाता मृत्युमवाप्नुयात् ॥ हस्तेन छेदयेद्यस्तु प्रोक्षितं साधकः पशुम् । पक्षिणं वा ब्रह्महत्यां सोऽवाप्नोति सुदुःसहाम् । नामन्त्र्य खड्गन्तु बलिं नियुञ्जीत विचक्षणः ॥ खडगस्यामन्त्रणे मन्त्रा यावन्तः कथिताः पुरा । महामायाबलौ ते वै योज्यास्तत्रोदिता बुधैः ॥ तैः सार्द्धमेते मन्त्रास्तु योज्याः खड्गाभिमन्त्रणे । पूजने शारदादीनां कामाख्याया विशेषतः ॥ द्विः कालीति ततो देव्या वज्रेश्वरिपदन्तथा । ततोऽनु लौहदण्डायै नमः शेषे तु योजयेत् ॥ संपूज्यानेन मन्त्रेण खड्मादाय पाणिना । कालरात्र्यास्तु मन्त्रेण तं खड्गमभिमन्त्रयेत् ॥ नेत्रबीजस्य मध्यन्तु द्विरावृत्य प्रयोजयेत् । ततोऽनु कालीति विकटदंष्ट्रेऽनु तत्पदम् ॥ हान्तादीनां तृतीयेन स्वरेणैकादशेन च । योजितो नादबिन्दुभ्यां द्वौ तत्पश्चान्नियोजयेत् ॥ फेत्कारिणिपदं तस्मात् खादय छेदयेति च । सर्व्वदुष्टानिति ततो द्विर्मारय लुलापकम् ॥ खड्गेन छिन्धि च्छिन्धीति ततः किल किलेति वै । ततश्चिकि चिकीत्येव ततः पिब पिबेति च ॥ ततोऽनु रुधिरञ्चैव स्फौं स्फौं किरि किरीति च । कालिकायै नम इति कालरात्र्यास्तु मन्त्रकम् ॥ इत्यनेन तु मन्त्रेण करवालेऽभिमन्त्रिते । कालरात्रिः स्वयं तस्मिन् प्रसीदत्यरिहानये ॥ * ॥
बलेः पूर्ब्बोदिता मन्त्रा नित्यं ग्राह्यास्तु साधकैः । अयं मन्त्रस्तु वक्तव्यस्तस्य हत्याविहानये ॥ यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा । अतस्त्वां घातयिष्यामि तस्माद्यज्ञे वधोऽवधः ॥ ततो दैवतमुद्दिश्य काममुद्दिश्य चात्मनः । छेदयेत्तेन खडगेन बलिं पूर्ब्बाननं तु तम् ॥ अथवोत्तरवक्तन्तं स्वयं पूर्ब्बमुखस्तथा । पूर्ब्बोक्तान् सैन्धवादींस्तु रक्ते वश्यं नियोजयेत् ॥ सौवर्ण राजतं ताम्रं रैत्यं पत्रपुटञ्च वा । माहेयं कांस्यमथवा यज्ञकाष्ठमयञ्च वा । पात्रं रुधिरदानाय कर्त्तव्यं विभवावधि ॥ न लौहे वाल्कले वापि रैत्ये वाङ्गेऽथ सैसके । दद्याद्रक्तं बलीनान्तु भूमौ स्रुचि स्रुवेऽथवा ॥ न घटे भूतले नापि न क्षुद्रे पानभाजने । रुधिराणि प्रदद्यात्तु भूतिकामो नरोत्तमः ॥ नरस्य तु सदा रक्तं माहेये तैजसेऽथवा । दद्यान्नरपतिस्तत्तु न पुटादौ कदाचन ॥ * ॥
हयमेधमृते दद्यान्न कदाचिद्धयं बलिम् । तथा दिक्पालमेधेषु गजं दद्यान्नराधिपः ॥ न कदाचित्तथा देव्यै प्रदद्याद्धयहस्तिनौ । हयाकर्षे चामरन्तु बलिं दद्यान्नराधिपः ॥ सिंहं व्याघ्रं नरञ्चापि स्वगात्ररुधिरन्तथा । न दद्याद्ब्राह्मणो मद्यं तथा देव्यै कदाचन ॥ सिंहव्याघ्रनरान्दत्त्वा ब्राह्मणो नरकं व्रजेत् । इहापि स्यात् स हीनायुः सुखसौभाग्यवर्जितः ॥ स्वगात्ररुधिरं दत्त्वा चात्महत्यामवाप्नुयात् । मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते ॥ न कृष्णसारं वितरेद्वलिन्तु क्षत्त्रियः क्वचित् । ददतः कृष्णसारन्तु ब्रह्महत्या भवेद्यतः ॥ यत्र सिंहस्य व्याघ्रस्य नरस्य विहितो वधः । ब्राह्मणोक्ते तु बल्यादौ तत्रायं विहितः क्रमः ॥ कृत्वा घृतमयं व्याघ्रं नरं सिंहञ्च भैरव ! । अथवा पूपविकृतं यवक्षोदमयञ्च वा । घातयेच्चन्द्रहासेन तेन मन्त्रेण संस्कृतम् ॥ * ॥
प्रभूतबलिदाने तु द्बौ वा त्रीन् वाग्रतः कृताम् । पूजयेत् प्रमुखान् कृत्वा सर्व्वान् तन्त्रेण साधकः । सामान्यपूजा कथिता बलीनां पूर्ब्बतो मया । विशेषो यत्र यत्रास्ति तन्मत्तः शृणु भैरव ! ॥ * ॥
महिषं प्रददौ देव्यै भैरव्यै भैरवाय वा । अनेनैव तु मन्त्रेण तथा तं पूजयेद्बलिम् ॥ यथा वाहं भवान् द्वेष्टि यथा वहसि चण्डिकाम् । तथा मम रिपून् हिंस शुभं वह लुलापक ! ॥ यमस्य वाहनन्त्वन्तु वररूपधराव्यय ! । आयुर्व्वित्तं यशो देहि कासराय नमोऽस्तु ते ॥ खड्गस्य तु यदादानं क्रियते तत्र मन्त्रणम् । जलेनाभ्युक्ष्य कुर्व्वीत गुहाजातेति भाषयन् ॥ दैवे पित्रे च सुभगः खड्गस्त्वं खड्गसन्निभः । छिन्धि विघ्रान् महाभाग ! गुहाजात नमोऽस्तु ते । प्रदाने कृष्णसारस्य मन्त्रोऽयं परिकीर्त्तितः । कृष्णसार ! ब्रह्ममूर्त्ते ब्रह्मतेजोविवर्द्धन । चतुर्व्वेदमयः प्राज्ञः प्रज्ञां देहि यशो मम ॥ * ॥
तथा सरभपूजायां मन्त्रमेतत् प्रकीर्त्तितम् । त्वमष्टपादो विभ्रंशचन्द्रभागसमुद्भव ! । अष्टमूर्त्ते महाभाग भैरवाख्य नमोस्तु ते ॥ यथा भैरवरूपेण वराहो निहतस्त्वया । तथा सरभरूपेण रिपुं विघ्नान्निसूदय ॥ हरिस्त्वं हररूपेण यथा वहसि चण्डिकाम् । तथाशुभानि मे नित्यं बहुविघ्नांश्च सूदय ॥ त्वं हरिः सिंहरूपेण जगत्प्रत्यूहरूपिणम् । जघान येन सत्येन हिरण्यकशिपुं हरन् । इत्येवं सिंहपूजायां क्रम उक्तो मयानघ ! ॥ * ॥
नरे स्वगात्ररुधिरे पर्य्यायं शृणु भैरव ! । पीठे चेद्दीयते मर्त्यं बलिं दद्यात् श्मशानके ॥ श्मशानं हेरुकाख्यञ्च तत्पूर्ब्बं प्रतिपादितम् । कामाख्यानिलये शैले तन्त्रादौ विद्धि तत्क्रमम् ॥ मम रूपं श्मशानन्तु भैरवाख्यन्तु कथ्यते । तन्त्राङ्गत्वं तपःसिद्धौ त्रिभागन्तु भविष्यति ॥ पूर्ब्बांशे भैरवाख्ये तु समुत्सृष्टिर्नरस्य च । दक्षिणांशे शिरो दद्यात् भैरव्या मुण्डमालया ॥ रुधिरं पश्चिमांशे तु हेरुकाख्ये नियोजयेत् । दत्त्वा संपूज्य च नरं विसृज्यागमनक्रमे ॥ पीठश्मशानेषु बलिं नेक्षेत्तु बलिदापकम् । अन्यत्रापि यतो यत्र दीयतेऽयं महाबलिः ॥ तत्राप्यन्यत्र चोत्सृज्य छित्त्वान्यत्र शिरोऽमृ- तम् । निवेदयेत् साधकस्तु विसृज्य न विलोकयेत् ॥ * ॥
सुस्नातं मनुजं दीप्तं पूर्ब्बाह्णे नियताशनम् । मांसमैथुनभोग्येन हीनं स्रक्चन्द्रनोक्षितम् ॥ कृत्तोत्तरामुखं तन्तु तदङ्गेषु च देवताः । पूजयेत्तञ्च नाम्ना तु दैवतेन च मानुषम् ॥ ब्रह्मरन्ध्रेषु ब्रह्माणं तन्नासायाञ्च मेदिनीम् । कर्णयोस्तु तथाकाशं जिह्वायां सर्व्वत्तोमुखम् ॥ ज्योतींषि नेत्रयोर्विष्णुं वदने परिपूजयेत् । ललाटे पूजयेच्चन्द्रं शक्रं दक्षिणगण्डतः ॥ वामगण्डे तथा वह्निं ग्रीवायां समवर्त्तिनम् । केशाग्रे निरृतिं मध्ये भ्रु वोश्चापि प्रचेतसम् ॥ नासामूले च श्वसनं स्कन्धे चापि धनेश्वरम् । हृदये सर्पराजन्तु पूजयित्वा पठदिदम् ॥ नरवर्ज्य ! महाभाग सर्व्वदेवमयोत्तम् । रक्ष मां शरणापन्नं सपुत्त्रवसुबान्धवम् ॥ सराज्यं मां सहापत्यं चतुरङ्गसमन्वितम् । रक्षन् परित्यज प्राणान् मरणे नियते सति ॥ महातपोभिर्दानैश्च यज्ञैर्यत् साध्यते नृणाम् । तन्मेदेहि महाभाग ! त्वञ्चापि प



Correction: