वाचस्पत्यम्
बलिन(भ) || त्रि० बलि + ग्रस्त्यर्थे—इन भ वा । जरया शिथिलचर्मवति अमरः ।
शब्दकल्पद्रुमः
ब(व)लिनः || त्रि (बलिः शिथिलं चर्म्म अस्या- स्तीति । बलि + पामादित्वान्नः ।) बलिभः । जरया श्लथचर्म्मयुक्तः । इत्यमरः । २ । ६ । ४५ ॥