वाचस्पत्यम्
बहल || त्रि० बहि—कलच् नलोपश्च १ प्रचुरे २ बहुशब्दार्थे च ।
शब्दकल्पद्रुमः
बहलः is an alternate of वहलः. व(ब)हलः || पुं, (उह्यतेऽनेनेति । वह + बाहुलकात् अलच् ।)
पोतः । इति हारावली । १४२ ॥ दृढे, त्रि । इति हेमचन्द्रः ॥ (बहुले च यथा, उत्तरचरिते । १ । “रसावस्याः स्पर्शो वपुषि वहलश्चन्दनरसः ॥” यथा वा प्रबोधचन्द्रोदये । १ । “येन त्रि सप्तकृत्वो नृपवहलवसामांसमस्तिष्कपङ्क- प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरे- ऽभिषेकः ॥”)