वाचस्पत्यम्
बहुच्छिन्ना || स्त्री ब(व)हु यथा स्यात् छिद्यते स्म छिद- क्त तस्य दस्य च नः । कन्दगुडूच्याम् राजनि० ।
शब्दकल्पद्रुमः
बहुच्छिन्ना || स्त्री (बहु यथा स्यात्तथा छिद्यते स्मेति । बहु + छिद् + क्त ।) कन्दगुडूची । इति राजनिर्घण्टः ॥