वाचस्पत्यम्
ब(व)हुतिथ || त्रि० ब(व)हूनां पूरणः ब(व)हु + डट् तिथुक् च । अनेकसंख्याते, “काले गते बहुतिथे” इत्युद्भटः ।
शब्दकल्पद्रुमः
बहुतिथः || त्रि (बहु + “बहुपूगगणसङ्घस्य तिथुक्” । ५ । २ । ५२ । इति तिथुक् । मुग्ध- बोधमते “बहुगणपूगसंघातास्तिथट् तलोपश्च ।” ७ । ४२ । इति तिथट् ।)
बहूनां पूरणः । इति व्याकरणम् ॥ (यथा, मार्कण्डेयपुराणे । २२ । १ । “ततः काले बहुतिथे गते राजा पुनः सुतम् । प्राह गच्छाशु विप्राणां त्राणाय चर मेदिनीम् ॥”)