वाचस्पत्यम्
बहुनाडीक || पु० ६ त० । अस्वाङ्गत्वात् कप् । १ अनेकदण्डयुते २ दिवसे ३ स्तम्भे च सि० कौ० । स्वाङ्गे न कप् न वा ह्रस्वः । बहुनाडी इत्येव अनेकान्त्रयुते एवं तन्त्रीशब्देऽपि ह्रस्वकपोर्मांवाभावौ उह्यौ ।
शब्दकल्पद्रुमः
बहुनाडीकः || त्रि (बह्व्यो नाड्यो यस्मिन् । बहु- नाडी + कप् ।)
दिवसः । इति संक्षिप्तसारः ॥ स्तम्भः । इति सिद्धान्तकौमुदी ॥