वाचस्पत्यम्
ब(व)हुपाद(द्) || पु० ६ ब० वा अन्त्रलोषेः । बटवृक्षे हलन्त अमरः । अदन्तः राजनि० । तस्यानेकशिफावत्त्वात्तथात्वम् ।
शब्दकल्पद्रुमः
बहुपादः || पुं, (बहवः पादा यस्य । अनेकशिफा- वत्त्वादस्य तथात्वम् ।)
वटवृक्षः । इति राज- निर्घण्टः ॥ (यथा, —
“वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः । क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अनेकपादविशिष्टे, त्रि । यथा, भागवते । ४ । २९ । २ । “पुरुषं पुरञ्जनं विद्यात् यद्व्यनक्त्यात्मनः पुरम् । एकद्बित्रिचतुष्पादं बहुपादमपादकम् ॥” तथा च महाभारते । १४ । ४२ । ३७ । “द्विपादबहुपादानि तिर्य्यग्गतिमतीनि च ॥”)