वाचस्पत्यम्
ब(व)हुपुत्र || ब(व)हवः पुत्रा—इव पर्णान्यस्य । १ सप्तच्छदे शब्दच० अनेके पुत्रा इव मूलान्यस्य । २ शतमूल्यां स्त्री ङीप् रत्नमा० ६ ब० । ३ अनेकतनयान्विते त्रि० ।
शब्दकल्पद्रुमः
बहुपुत्त्रः || पुं, (बहवः पुत्त्राः सन्ततयो यस्य ।)
सप्तपर्णः । इति शब्दचन्द्रिका ॥ अनेकसुत- विशिष्टे, त्रि ॥ (यथा, हरिवंशे । ३ । ६४ । “बहुपुत्त्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥”)