वाचस्पत्यम्
ब(व)हुल || त्रि० ब(व)हि—कुलच् नि० नलोपः । १ अनेकसंख्या- न्विते २ प्रचुरे । व(व)हूनि लाति ला—क । ३ अग्नौ ४ कृष्ण- पक्षे पु० मेदि० । “ब(व)हुलेऽपि गते निशाकरः” कुमारः । ५ आकाशे ६ सितमरिचे न० ७ कृष्णवर्णे ८ तद्वति त्रि० ९ एलायां १० नीलिकायां ११ गवि स्त्री मेदि० । १२ देवीभेदे स्त्री कालिकापु० २३ अ० अग्निदैवतत्वात् १३ कृत्तिकानक्षत्रे स्त्री ब० व० मेदि० ।
शब्दकल्पद्रुमः
बहुलं || क्ली (बंहते वृद्धिं गच्छतीति । बहि वृद्धौ कुलच् । नलोपश्च ।)
आकाशम् । इति मेदिनी ॥ सितमरीचम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
बहुलं || त्रि (बहूनर्थान् लातीति । बहु + ला + क ।)
प्रचुरम् । (यथा, मनुः । ४ । ६० । “नाधार्म्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् ॥”)
कृष्णवर्णः । इति मेदिनी । ले, ११८ ॥
शब्दकल्पद्रुमः
बहुलः || पुं, (बहूनर्थान् लातीति । बहु + ला + क ।)
अग्निः । कृष्णपक्षः । इति मेदिनी । ले, ११८ ॥ (यथा, कुमारे । ४ । १३ । “बहुलेऽपि गते निशाकर- स्तनुतां दुःखमनङ्ग ! मोक्ष्यति ॥” महादेवः । यथा, महाभारते । १३ । १७ । १२८ । “मन्थानो बहुलो वायुः सकलः सर्व्वलोचनः ॥”)