वाचस्पत्यम्
बह्वाशिन् || त्रि० बहु अश्नाति अश—णिनि । १ बहुभोजन- शीले स्त्रियां ङीप् । “बह्वाशी स्वल्पहृष्टश्च तनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः” चाणाक्यः । २ धृतराष्ट्रपुत्रभेदे पु० भा० आ० ६७ अ० ।
शब्दकल्पद्रुमः
बह्वाशी || [न्)
त्रि, (बहु अश्नातीति । बहु + अश् + णिनि ।)
बहुभोजनशीलः । यथा, चाणक्ये । ६९ । “बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ॥” (बह्वी आशा यस्य ।)
बह्वाशाविशिष्टः ॥ (धृतराष्ट्रपुत्त्रविशेषे, पुं । यथा, महाभारते । १ । ११७ । १९ । “आदित्यकेतुर्बह्वाशी नागदन्तोऽग्रयाय्यपि ॥”)