वाचस्पत्यम्
बाडव || न० बडवानां समूहः अण् । १ घोटकीसमुदाये । बाड घञ् बल—घञ् लस्य डो वा बाडो वृन्निः तं वाति वा—क वा । २ ब्राह्मणे पु० । बडवायां जातः अच् । ३ और्वे समुद्रस्थे कालाग्निभेदे पु० हेमच० । वाडवाग्न्या- दयोऽप्यत्र पु० ।
शब्दकल्पद्रुमः
बा(वा)डवं || क्ली (बडवानां समूहः । बडवा + “खण्डिकादिभ्यश्च ।” ४ । २ । ४५ । इत्यञ् ।)
बडवासमूहः । इत्यमरः ॥ (बडवाया इद- मिति । बडवा + अण् । बडवासम्बन्धिनि, त्रि । यथा, सुश्रुते । १ । ४५ । “दीपनीयमचक्षुष्यं बाडवं दधि वातलम् ॥”)
शब्दकल्पद्रुमः
बा(वा)डवः || पुं, (बाडं यज्ञान्तस्रानं वाति प्राप्नो- तीति । बाड + वा + कः ।)
ब्राह्मणः । (बड- वायां घोटक्यां जातः । बडवा + अण् ।)
बड- वानलः । इत्यमरः ॥ तत्पर्य्यायः । और्व्वः २ संवर्त्तकः ३ अब्ध्यग्निः ४ बडवामुखः ५ । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ९९ । ६४ । “महोदधेर्जठरगतश्च बाडवो भवान् विभूत्या परया करे स्थितः ॥”)