वाचस्पत्यम्
बाणवार || न० बाणं वारयति वारि—अण् उप० स० । १ कञ्चुके सन्नाहे हारा० ।
शब्दकल्पद्रुमः
बा(वा)णवारः || पुं, (बाणं परमुक्तशरं वारय- तीति । वृ + णिच् + अण् ।)
भटादेश्चोलाकृति- सन्नाहः । तत्पर्य्यायः । वारवाणः २ वारणः ३ । इति शब्दरत्नावली ॥ चोलकः ४ । इति हारा- वली । १९७ ॥ (क्लीवेऽपि दृश्यते । यथा, सुश्रुते । ४ । २४ । “बाणवारं मृजावर्णतेजोबलविवर्द्धनम् ॥”)