वाचस्पत्यम्
बान्धव || पु० बन्धु + स्वार्थे, इदमर्थे वाऽण् । १ बन्धुशब्दार्थे, २ पितृमातृसम्बन्धिनि ३ भ्रातरि ४ मातुलादौ च । “बान्धबास्तदवाप्नुयुः” काव्या० स्मृतिः ।
शब्दकल्पद्रुमः
बान्धवः || पुं, (बन्धुरेव । बन्धु + “प्रज्ञादिभ्यश्च ।” ५ । ४ । ३८ । इति स्वार्थे अण् ।)
ज्ञातिः । इत्य- मरः । २ । ६ । ३४ ॥ सुहृत् । इति मेदिनी । वे, ४५ ॥ (यथा, मनुः । ५ । ७० । “नातिवर्षस्य कर्त्तव्या बान्धवैरुदकक्रिया ॥”)
अस्य विवरणं बन्धुशब्दे द्रष्टव्यम् ॥