वाचस्पत्यम्
बालधि || पु० बाल धीयन्तेऽत्र धा—आधारे कि । केशयुक्त- लाङ्गूले अमरः ।
शब्दकल्पद्रुमः
बालधिः || पुं, (बालाः केशाः धीयन्तेऽत्र । बाल + धा + कि ।)
केशयुक्तलाङ्गूलम् । इत्यमरः । २ । ८ ५० ॥ (यथा, किराते । १२ । ४७ । “चमरीगणैः शिवबलस्य बलवति भयेऽप्युपस्थिते । वंशविततिषु विषक्तपृथु- प्रियबालबालधिभिराददे धृतिः ॥”)