संस्कृत-शब्दकोशः

बालभंद्रक बालभोज्य

बालभैषज्य

वाचस्पत्यम्

बालभैषज्य ||‍ न० ६ त० । १ रसाञ्जने राजनि० २ शिशूनामौषधे च ।


शब्दकल्पद्रुमः

बालभैषज्यं || क्ली (बालं भैषज्यम् । यद्वा, बालस्य शिशोभषज्यम् ।)
रसाञ्जनम् । इति राज- निर्घण्टः ॥ बालकस्यौषधञ्च ॥ (तद्यथा, —
“भैषज्यं पूर्ब्बमुद्दिष्टं नराणां यज्ज्वरादिषु । कार्य्यन्तदेव बालानां मात्रा तस्य कनीयसी ॥” इति वैद्यकचक्रपाणिसंग्रहे बालरोगाधिकारे ॥)



Correction: