वाचस्पत्यम्
बालव्यजन || न० बाला एव व्यजनम् । चामरे हेमच० । ‘कुर्वन्ति बालव्यजनैश्चमर्य्यः’ इति कुमारः ।
शब्दकल्पद्रुमः
बालव्यजनं || क्ली (बालस्य चमरीपुच्छस्य वालेन वा निर्म्मितं व्यजनम् ।)
चामरम् । तत्पर्य्यायः । रोमगुच्छः २ प्रकीर्णकम् ३ । इति हेमचन्द्रः ॥ (यथा, कुमारे । १ । १३ । “लाङ्गूलविक्षेपविसर्पिशोभै- रितस्ततश्चन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्व्वन्ति बालव्यजनैश्चमर्य्यः ॥”)
बालकस्य व्यजनञ्च ॥ “बालव्यजनमोजस्यं मक्षिकादीन् व्यपोहति ।” इति द्रव्यगुणः ॥