वाचस्पत्यम्
बालहस्त || पु० बालाः केशा हस्त इव यत्र । १ पशूनां लाङ्गूले अमरः । बाल + संघे हस्तप्र० । २ केशसंघे च पु० ।
शब्दकल्पद्रुमः
बालहस्तः || पुं, (बाला हस्त इव मक्षिकादीनां निवारकत्वात् ।)
बालधिः । लोमयुक्तलाङ्गू- लम् । इत्यमरः ॥ (केशानां हस्तः समूहः त्रि । केशसमूहश्च इत्युज्ज्वलदत्तः ॥)