वाचस्पत्यम्
बालिश || त्रि० बाड—इन् बाडिं वृद्धिं श्यति शो—क डस्य लः । १ मूर्खे, २ शिशौ च मेदि० “बालिशमालि! शयानम्” उद्भटः । बालाः सन्त्यस्य इनि वाली मूर्द्ध्वा शेतेऽत्र शी— बा० आधारे ड । ३ उपधाने न० शब्दमा० ।
शब्दकल्पद्रुमः
बालिशं || क्ली (बालाः सन्ति यस्य इति बाली मस्तकस्तेन शेते यत्र । शी + आधारे ड ।)
उपधानम् । इति शब्दमाला ॥ (ब्राह्मणादि- राकृतिगणः । इति पाणिनिः । ५ । १ । १२४ ॥)
शब्दकल्पद्रुमः
बालिशः || त्रि (बाड + इन् । डस्य लत्वं । बालिं वृद्धिं श्यतीति । बालि + शो + आतोऽनुपेति कः ।)
शिशुः । (यथा, भागवते । ४ । १४ । २३ । “बालिशा वत यूयं वा अधर्म्मे धर्म्ममानिनः ॥” बालिशा शिशुवृत्तय इत्यर्थः ॥)
मूर्खः । इति मेदिनी । शे, २६ ॥ (यथा, मनुः । ३ । १७६ । “अपाङ्क्त्यो यावतः पाङ्क्त्यान् भुञ्जानाननु- पश्यति । तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥” “बालिशोऽज्ञः ।” इति तट्टीका ॥)