संस्कृत-शब्दकोशः

बाल्मीकि बाल्वजभारिक

बाल्य

वाचस्पत्यम्

बाल्य ||‍ न० बालस्य भावः, कर्म वा वयोयचनत्वात् ष्यञ् । ‘आ षोडशाद्भवेद्बाल’ इत्युक्ते अवस्थाभेदे ।


शब्दकल्पद्रुमः

बाल्यं || (बालस्य भावः कर्म्म वा । बाल + “पत्यन्त- पुरोहितादिभ्यो यक् ।” ५ । १ । १२८ । इति यक् ।)
बालस्य भावः । तत्पर्य्यायः । शिशु- त्वम् २ शैशवम् ३ । इत्यमरः ॥ तच्च षोडश- वर्षपर्य्यन्तम् । आषोडशाद् भवेद्बाल इत्युक्तेः । इति भरतः ॥ (यथा मनुः । ५ । १४८ । “बाल्ये पितुर्वशे तिष्ठेत् पाणिग्राहस्य यौवने ॥” “वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकन्तथा । ऊनषोडश वर्षस्तु नरो बालो निगद्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: